पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


इदन्तप्रकरणम्]
२१५
बालमनोरमा

इति नुट् । “नामि' (सू २०९) इति दीर्घ । वारीणाम् । वारिणि । वारिणो । हलादौ हरिवत् ।

३२१ । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य । (७-१-७४)

प्रवृत्तिनिमितैक्ये भाषितपुस्कमिगन्त क्लीब पुवद्वा स्याट्टादावचि । अनादये-अनादिने, इत्यादि । शेप वारिवत् । पीलुर्वृक्षस्तत्फल पीलु, तस्मै पीलुने । अत्र न पुवत् । प्रवृत्तिनिमित्तभेदात् ।


रूपम् । वारिणोरिति ॥ ओसि यण बाधित्वा नुमि णत्वे रूपम् । वारि आमित्यत्र परत्वान्नुट बाधित्वा नुमि प्राप्त आह । नुमचिरेति ॥ जुडिति ॥ नुम्नुटो को विशेष इत्यत आह । नामीति दीर्घ. इति ॥ नुमि तु सति तस्याङ्गभक्तत्वात् “नामि' इति दीर्घो न स्यादिति भाव । वारिणीति ॥ डौ “अञ्च घे ' इत्यौत्व परमपि बाधित्वा 'वृद्वौत्त्वे इति पूर्वविप्रतिषेधान्नुम् । न विद्यते आदि उत्पत्ति यस्य स अनादि ईश्वर । अनादि अविद्या । अनादि ब्रह्म । त्रिलिङ्गोऽय विशष्यनिन्न । तस्य नपुसकत्वे प्रथमाद्वितीययेोर्वारि वद्रूपाणि । टादिषु अचि विशेषमाह । तृतीयादिषु ॥ भाषित पुमान् येन प्रवृत्तिनिमित्तेन तत् भाषितपुस्क प्रवृत्तिनिमित्त तदस्यास्तीति “अर्श आद्यच्’ शब्दस्वरूप विशेष्यम् । पुस्त्वे नपुसकत्वे च एकप्रतिनिमित्तमिति यावत् । “इकोऽचि विभक्ता' इत्यत इकोऽचीति “नपु सकस्य झलच ' इत्यतो नपुसकस्येति चानुवर्तते । षष्ठी च प्रथमया विपरिणम्यते । तदाह । प्रवृत्तिनिमित्तैक्ये इत्यादिना ॥ पुवद्वेति ॥ गाल्वग्रहणादिति भाव । अचीति ॥ अजादावित्यर्थ । पुवत्वे हूस्वनुमोरभाव फलति । घटपटादिशब्दास्तावत् घटत्वपटत्वादि रूपेणैव तत्तद्यक्ति प्रत्याययन्ति, नतु द्रव्यत्वपृथिवीत्वादिरूपेणेति निर्विवादम् । ततश्च यद्विशेषण पुरस्कृत्य घटादिशब्दा तत्तद्यक्तिषु प्रयुज्यन्ते तद्विशेषण प्रवृत्तिनित्तमित्युच्यते । वाच्यतावच्छेदकमिति यावत् । एवञ्च नपुसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छे दक तत् शब्दस्वरूप भाषितपुस्कशब्देन विवक्षितम् । अनादिशब्दश्व उत्पत्त्यभावात्मक मनादित्व पुरस्कृत्य स्त्रीपुन्नपुसकतत्तह्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमितैक्ये भाषितपुस्कता । अतस्तस्य टादावचि पुवत्वविकल्प इत्यभिप्रेत्योदाहरति । अनादये अनादिने इति ॥ पुवत्त्वे नुम अप्रवृत्ते “घेर्डिति' इति गुण । पुवत्त्वाभावे तु ‘नुमिति भाव । इत्यादीति ॥ अनादे -अनादिन । अनाद्यो -अनादिनो । अनादीनामित्येव । शेषं वारिवदिति ॥ प्रथमाद्वितीययो भ्यामादौ हाल च वारिवदित्यर्थ । प्रवृत्तिनिमित्तैक्ये इत्यस्य प्रयोजन दर्शयितुमाह । पीलुर्वृक्ष इत्यादि । यदा वृक्षविशेष पीलुशब्दवाच्य । तदा पुलिङ्ग पीलुशब्द यदा पीलुजन्यफल पीलुशब्दवाच्य तदा नपुसकलिङ्ग । फले लुक्’ इत्यणो लुक् । अत्र फले वाच्ये पुवत्व नेत्यर्थ । कुत इत्यत आह । प्रवृत्तिनिमि त्तभेदादिति ॥ वृक्षत्वव्याप्यजातिविशेषात्मक पीलुत्व वृक्षविशेषवाच्ये प्रवृत्तिनिमित्तम् ।