पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


इदन्तप्रकरणम्]
२१३
बालमनोरमा

श्रीपाय । अत्र सन्निपातपरिभाषया “ आतो धातो ' (सू २४०) इत्याकारलोपो न

इत्यादन्ताः ।

॥ अथ अजन्तनपुंसकलिङ्गे इदन्तप्रकरणम् ॥

३१९ । स्वमोर्नपुंसकात् । (७-१-२३)

क्लीबादङ्गात्परयो स्वमोर्लुक् स्यात् । वारि ।


वाच्यम् । ‘अर्थवदधातु' इत्यत प्रातिपदिकग्रहणानुवृत्तौ पुन प्रातिपदिकग्रहणेन अन्तवद्भावत प्रातिपदिकत्वे ह्रस्वाभावबोधनात् । शानवदिति ॥ ह्रस्वविधानात् दीर्घान्तत्वप्रयुक्तो न कश्चि द्विशेष इति भाव । जश्शसोश्शि श्रीपाणीति रूपम् । भिन्नपदस्थत्वेऽपि “एकाजुत्तरपदे ण' इति णत्वप्रवृत्ते । श्रीपेण इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात् स्यादेव णत्वम् । श्रीपायेति ॥ श्रीपाशब्दस्य 'ह्रस्वो नपुसके' इति ह्रस्वत्वे डेर्यादेशे ‘सुपि च' इति दीर्घे रूपम् । सन्निपातपरिभाषा तु कष्टायेति निर्देशात् न प्रवर्तते इति प्रागुक्तम् । नन्वत्र ह्रस्वत्वे कृतेऽपि प इत्यस्य एकदेशविकृतन्यायेन धातुत्वानपायात् दीर्घे कृते आकारान्तत्वाच्च आतो धातो ' इत्याल्लोपस्यात् । यादेशस्य स्वतो यकारादितया स्थानिवर्त्त्वेन स्वादिप्रत्ययत्या च तस्मिन् परे भत्वस्यापि सत्वादित्यत आह । अत्र सन्निपातेति ॥ ननु उपजीव्यविः घातक प्रति उपजीवकन्निमित्त न भवतीति सन्निपातपरिभाषया लभ्यते । प्रकृते च अदन्त मुपजीव्य प्रवृत्तस्य यादेशस्य आल्लोप प्रति कथन्निमित्तत्वम् । यादेशस्य

आकारमुपजीव्य

प्रवृत्तत्वाभावेन आकारलोप प्रति निमित्तत्वे बाधकाभावादिति चेन्मैवम् । यादेशस्तावत् ह्रस्व मवर्णमुपजीव्य प्रवर्तते । तद्विधावत इत्यनुवृत्ते । ततश्च ह्रस्वत्वमवर्णत्वञ्च समुदित यादेशस्य उपजीव्यम् । तत्र कष्टायेति निर्देशात् सन्निपातपरिभाषा बाधित्वा कृतेऽपि दीर्घे ह्रस्वत्वाश एव निवृत्त । अवर्णत्वाशस्त्वनुवर्तित एव । तस्याप्याल्लोपेन निवृत्तौ उपजीव्याविघातस्यादेवेति भवेदेव सन्निपातपरिभाषाविरोध । अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् 'इको गुणवृद्धी' इत्यत्र । वस्तुतस्तु “ आतो धातो ' इत्यत्र लक्षणप्रतिपदोक्तपरिभाषया प्रतिपदोक्त एवाकारान्तधातुर्गुह्यते । इह तु पाधातोर्ह्रस्वत्व तु पुनर्दीर्घे सति अवगम्यमान पास्वरूप लाक्ष णिकमेवेति न तस्यात्र ग्रहणमित्यास्तान्तावत् ॥

इत्यादन्ताः ।

अथ इदन्ताः निरूप्यन्ते ॥ अथ वारिशब्दप्रक्रिया दर्शयितुमाह । स्वमोर्नपुं सकात् ॥ “षड्भ्यो लुक्’ इत्यतो लुगित्यनुवर्तते इत्याह । क्लीबादित्यादिना। वारीति ॥