पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


सकारान्तप्रकरणम्]
२९७
बालमनोरमा ।

अथ हलन्नपुल्लिंङ्ग सकारान्तप्रकरणम्

  • पिस गतौ' सुष्ठु पेसतीति सुपी., सुपिसौ, सुपिस । सुपिसा

सुपीर्भ्याम् । सुपी षु-सुपीष्षु । एव सुतू *तुस खण्डने विद्वान् विद्वांसौ, विद्वास । हे विद्वन् । विद्वांसम्, विद्वांसौ ।

४३५ । वसोः सम्प्रसारणम् । (६-४-१३१)

वस्वन्तस्य भस्य सम्प्रसारण स्यात् । पूर्वरूपं, षत्वम् । विदुष विदुषा । “वसुस्रसु-' (सू ३३४) इति दत्वम् । विद्वद्भयाम्, इत्यादि सेदिवान्, सेदिवासौ, सेदिवांस । सेदिवासम् । अन्तरङ्गोऽपीडागम सम्प्र


अथ सकारान्ता निरूप्यन्ते ॥ सुपीरिति ॥ 'वॉरुपधाया' इति दीर्घ । एव सुतूरिति विद्वानिति ॥ ‘विद ज्ञाने' अदादि, लटश्शत्रादेशे “विदेश्शतुर्वसु' शित्वात् सार्वधातुकत्वात् शप् , लुक् । “सार्वधातुकमपित्' इति डित्वान्न लघूपधगुण । कृदन्तत्वात् प्रातिपदिकत्व विद्वस्शब्द , तस्मात् सु, उगित्वान्नुम्, ‘सान्तमहत' इति दीर्घ , सुलोप, सस्य सयोगान्त लोप, तस्यासिद्धत्वान्नलोपो नेति भाव सान्तत्वाभावात् “वसुस्रसु' इति दत्वन्न। विद्वां साविति ॥ सुटि नुमि कृते “सान्तमहत ' इति दीर्घ इत्यनुस्वार इति भाव शसादावचि विशेषमाह । वसोः सम्प्रसारणम् । प्रत्यग्रहणपरिभाषया वसोरिति तदन्त ग्रहणम् । भस्येत्यधिकृतम् । तदाह । वस्वन्तस्येति । पूर्वेति ॥ शसि वकारस्य उत्वे विदु अस् इति स्थिते, “सम्प्रसारणाच्च' इति पूर्वरूपे, विदुस् इति स्थिते, प्रत्ययावयवत्वात् सस्य षत्वमित्यर्थे । “ षत्वतुकोरसिद्ध ' इति पूर्वेरूपस्यासिद्धत्वन्न शङ्कयम् । पदान्तपदाद्योरेकादेश एव तत्प्रवृत्ते । सुपि दत्वे चर्त्वम्। विद्वत्सु । सेदिवानिति ।। “षद्लृ वेिशरणगत्यवसादनेषु धात्वादे ष स , भाषाया सदवसश्रुव ? इति लिट क्वसु, उकावितौ, “लिटि धातो ' इति द्वित्वम्, हलादिशेष, “ अत एकहल्मध्ध्ये' इत्येत्वाभ्यासलोपो, “वस्वेकाजाद्धसाम्' इति इट् सेदिवस्शब्द । ततस्सु, उगित्वान्नुम्, * सान्तमहत ' इति दीर्घ , सुलोप , सस्य सयोगान्त लोप , तस्यासिद्धत्वान्नलोपो न सान्तवस्वन्तत्वाभावान्न दत्वमिति भाव । सेदिवांसाविति नुमि 'सान्तमहत ' इति दीर्घ । ननु उक्तरीत्या निष्पन्नात् सेदिवसूशब्दात् शसि ' वसो सम्प्र सारणम्’ इति वकारस्य उत्वे पूर्वरूपे इकारस्य यणि सेद्युष इति स्यात् । ततश्च सेदुष इति वक्ष्यमाण रूपमयुक्तम् । नच शसि भविष्यति । भविष्यत्सम्प्रसारणरूपकार्य पर्यालोच्य पूर्वमेव इट् न प्रवर्तते पदावधिकान्वाख्यानाभ्युपगमादिति वाच्यम् । एवमपि बहिर्भूतयजाद्यसर्व नामस्थानस्वादिप्रत्ययनिमित्तकभसज्ञापेक्षतया सम्प्रसारणस्याङ्गस्य बहिरङ्गत्वेन यणादेशस्यै वान्तरङ्गत्वात् प्रथम प्रवृत्ते । वान्तरङ्गस्य बलवत्वादित्यत आह । अन्तरङ्गोऽपीति ।।