पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/183

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ सिद्धान्तकौमुदीसहिता [ऊदन्त नदीकार्य विशेष । हे अतिचमु । अतिचम्वै । अतिचम्वा । अतिचम्वा’ । अतिचमूनाम्। अतिचम्वाम्। खलपू । २८१ । ओः सुपि ॥ (६-४-८३) धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽज्ञस्य यण् स्यादजार्दी सुपि । 'गतिकारकेतरपूर्वपदस्य यण्नेष्यते' (वा ५०३४)। खल'वौ । खलाव , इत्यादि। एवं सुल्वादय । ‘ अनेकाच’ ” किम्। लू । लुवौ । लुव । * धात्ववयव-' इति किम्। उल्लू । उल्ल्वौ । उल्ल्व । । असंयोगपूर्वस्य' किम्। कटयू । कटभुवैौ। कटभुव । ‘ गतिइत्यादि किम्। परमलुवौ। ‘ सुपि' किम्। लुलुवतु । स्वभू । *न भूसुधियो.” (सू २७३) स्वभुवौ । स्वभुव । एवं स्वयम्भू । २८२ । वर्षाभ्वश्च । (६-४-८४) दय क्रान्ताद्यर्थे” इति समास । स्त्रीप्रल्ययान्तत्वाभावात् “गोखियो * इति हृस्वो न भवति । नदीकायैमिति ॥ *प्रथमलिङ्गग्रहणञ्च ? इति वचनादिति भाव । खलपूरिति ॥ खल पुनातीति किपू । खलपू औ, अस्, इति स्थिते । ' अचि श्नुधातु' इति उवडि प्राप्त । ओोः. सुपि ॥ * एरनेकाच ' इति सूत्र एरिति वर्जमनुवर्तते ।। * अचि श्नुधातु ? इत्यत अचील्यनुवृत्तम् । तेन सुपीति विशेष्यते । तदादिविधि ।। * इणो यण् ? इत्यत यष्णित्यनुवर्तते । तदाह । धात्ववयवेत्यादिना । गतिकारकेति ॥ इदमपि वार्तिकम् । अत्र अनुवर्तते इति भाव । खलप्र्वौ, खलप्वः, इति ॥ कारकपूर्वकत्वादिष्ह यणिति भाव । हे खलपू । खलप्वम् । खलrवैौं । खलप्व । खलत्वा । खलप्वे । खलप्व । खलप्व । खलप्वो । खलप्वि । इह अजादी ‘एरनकाच ? इति यण असम्भवात् उवडि प्राप्त अनेन सूत्रेण याण हूवदूपम् । उवडोऽपवाद इति फलितम् । इयडुवर्डौ 'एरनेकाच ' इति 'ओ सुपि? इति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादा ॥ एव सुल्वादयः इति ॥ सुष्ठु ळुनातीति सुलू । गतिपूर्वकत्वादिहापि यणू। आदिना केदारलरित्यादिसड्रह । कटभूरिति ॥ 'शु गतौ' किब्वचि' इत्यादिना किपू। उकारस्य दीर्घश्च। परमलुवाविति ॥ परमश्वासौ लूवेति विग्रह । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति । अतुसि लुलू इत्यस्य अनेकाच्त्वेऽपि सुप्परकत्वाभावान्न यणिति भाव । स्वभूरिति ॥ स्वस्मात् भवतीति किम् । कारकपूर्वकत्वाद्यणि प्राप्त आह । न भूसुधियेरिति ॥ वर्षासु भवति वर्षाभू । वर्षर्तावुत्पन्न इल्यर्थ । वर्षाशब्दो नित्यस्त्रीलिङ्गबहुवचनान्त । ' अप्सुमनस्समासिकतावर्षाणा बहुत्वञ्च” इति लिङ्गानुशासने स्रयाधकारे सूत्नकृतोक्तै । वर्षाभूर्ददुरे पुमान्' इति यादव । “न भूसुधियो। ' इति निषेधे प्राप्ते । वर्षाभ्वश्च ॥ ‘ओोः सुपि’ इत्यनुवर्तते ॥ ‘अचि श्नुधातु’ इल्यत. अचीतिे च