सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
बालमनोरमा

प्रकरणम्]

(सू ३२४) इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्धयो. संज्ञा ।

१५ । तपरस्तत्कालस्य । (१-१-७०)

त. परो यस्मात्स तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्। तेन ‘अत्’ इत्’ इत्यादय. षण्णा षण्णां संज्ञा । * ऋत्’ इति द्वादशानाम् ।


अन्यथा तत्र ढत्वस्य सयोगान्तलोपस्य वा आपत्तौ आकारो न श्रूयेतेत्यलम् । ननु ग्रहणकसूत्रे अज्ग्रहणमेव क्रियताम् । अणुदित्सवर्णस्येति किमण्ग्रहणेन । हयवरलाना सवर्णाभावेन तेषु ग्रहणकशास्त्रस्य व्यर्त्थत्वादित्यत आह । अनुनासिकेति । तेनेति ॥ उक्तद्वैविद्येन सवर्ण त्वात् अननुनासिकास्ते यवला प्रत्येक द्वयोर्द्धयोस्सज्ञा । अनुनासिकास्तु यवला अननुनासिका नामपि न सज्ञा । भेदका गुणा इत्याश्रयणात् । वर्णसमाम्नाये अननुनासिकानामेव तेषा पाठाच्च । एवञ्च यवलसग्रहार्थ ग्रहणकसूत्रे अज्ग्रहणमपहाय अण्ग्रहणमिति भाव । ग्रहणकसूत्रे अण् सवर्णाना ग्राहक इति स्थितम् । एव सति अत् इत् उत् इत्यादि तपराणामप्यणा स्वस्वसर्वसवर्ण ग्राहकत्वे प्राप्ते इदमारभ्यते । तपरस्तत्कालस्य । तपरइत्यावर्तते । प्रथमस्तावत्तपरशब्द त पर यस्मादिति बहुव्रीहि । द्वितीयस्तु तात् पर इति पञ्चमीसमास । ग्रहणकसूत्रादणित्यनुवर्तते । तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहि । ऊकाल, उष्ट्रमुख इत्या दिवत् समास । एवञ्च अत्, इत्, इत्याद्यात्मक अण् तपरत्वेन उचार्यमाण स्वीयकालसदृश कालस्य सज्ञा स्यादित्यर्थ । तत्र, अत्, इत्, उत्, ऋत्, इत्येतेषा तपराणा हूस्वाकारादीना मणा कालास्तत्काला तत्तद्ह्स्वप्रपञ्चा । एत्, ऐत्, ओत्, औत्, इत्येतेषान्तु तपराणामेकारा दीना तत्तत्काला तत्तद्दीर्घप्रपञ्चा । तत्र ह्रस्वाकारादीना तपराणा तत्तद्भस्वप्रपञ्चवाचकत्वस्य एकारादीनाच्च दीर्घाणा तपराणा स्वस्वदीर्घप्रपञ्चाचकत्वस्य लोकसिद्धत्वात् 'सिद्धेसत्यारम्भो नियमार्थ’ इति न्यायेन सूत्रमिद नियमार्थ सपद्यते । अण् तपरश्चेत् तत्कालस्यैव सवर्णस्य ग्राहक । नत्वतत्कालस्येति । एवञ्च अतत्कालनिवृत्यात्मकपरिसङ्खयार्थमिद सूत्रम्। वैयाकरणास्तु परि सङ्खयाविधिमेव नियमविधिरिति व्यवहरन्ति। तदिद सर्वमभिप्रेत्य व्याचष्टे । तः परो यस्मा दित्यादिना ॥ नियमविधानस्य फलमाह । तेनेत्यादिना ॥ तेन नियमविधानेन । आदिना लृत् इत्यादि सङ्गह । अत्, इत्, उत्, लृत्, एत्, ऐत्, ओत्, औत्, इत्येते अष्टौ तपरा अण स्वस्वसमानकालाना षण्णा षण्णामेव । नत्वतत्कालानामित्यर्थ । ऋदिति 'द्वादशाना सञ्ज्ञा मिति ॥ ऋलवर्णयोरिति सावर्ण्यविधानादिति भाव । नन्वेव लृदित्यपि द्वादशाना ग्रहण स्यात् । तथाच पुषादिद्युताद्यलृदित इत्यादि विधय ऋदित्स्वपि प्रवर्तरन्निति चेन्न । ऋदित्यनेन लृप्रप श्वस्य ग्रहणेऽपि क्वचित् लृदिद्रहणबलेन लृ इत्यनेन ऋप्रपञ्चस्य ग्रहणाभावात् । अन्यथा ऋतो डीत्यादौ क्वचित् ऋद्वहणस्य पुषादिद्युताद्यलृदित इत्यादौ क्वचित् लृदिद्वहणस्य च वैयर्थ्यापत्ते प्रथमातिक्रमणे कारणाभावेन सर्वत्र ऋदिद्रहणस्यैव कर्तु शक्यत्वात् । इदमेवाभिप्रेत्य ग्रहणक सूत्रे ऋदिति द्वादशानामित्येवोक्तम् । नतु लृदपीति । अत्र च त परो यस्मादिति बहुव्रीहेः अत्