पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१६
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३६९ । हिंसार्थानां च समानकर्मकाणाम् । (३-४-४८)

छूटतायान्त उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थान् णमुल्स्यान् । दण्डोपघातङ्गाः कालयति दण्डनोपघातम् । दण्डताडम् । “समानकर्मकाणाम्' इति किम् । दण्डेन चोरमाहत्य गाः कालयति ।

३३७० । सप्तम्यां चोपपीडरुधकर्षः । (३-४-४९)

उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल्स्यात् । पाश्धपपीडं शेते-पार्श्वयोरुपपीडम्-पार्श्वभ्यामुपपीडम् । व्रजोपरोधं गा: स्था पयति । व्रजेन व्रजे उपरोधं वा । पाण्युपकर्ष धानाः संगृह्णाति । पाणावुप कर्षम्-पाणिनोपकर्षम् ।

३३७१ । समासत्तौ । (३-४-५०)

तृतीयासप्तम्योर्धातोर्णमुल्स्यात्संनिकर्षे गम्यमाने । केशग्राहं युध्यन्ते युद्धसंरम्भात् । केशेषु गृहीत्वा । हस्तग्राहम्-हस्तेन गृहीत्वा ।

३३७२ । प्रमाणे च । (३-४-५१)

तृतीयासप्तम्योरित्येव । व्यङ्गुलेोत्कर्ष खण्डिकां छिनति । व्यङ्गुलेन व्यङ्गुले वोत्कर्षम् ।


तदेवेति ॥ किमुपदश्येल्याकाङ्कायां तदेव मूलकमर्थात् कर्मत्वेनान्वेतीत्यर्थ . । हिंसार्था नाञ्च ।। दण्डोपधातङ्गाः कालयतीति ॥ 'कल विक्षेपे' चुरादि । तत्रानुप्रयुज्यमान कालयतेरुपहन्तेश्च गावः कर्म । अतस्समानकर्मकत्वमुपहन्तेरिति भावः । दण्डेनोपघात मिति ॥ तृतीयाप्रभृतीन्यन्यतरस्यामिति उपपदसमासविकल्प इति भाव । दण्डताड मिति । “तड आघाते 'चुरादि । सप्तम्याञ्चोपपीड ॥ चात्तृतीयायामिति समुच्चीयते । कृप विलेखन' इति धातोश्शपि कृतलधूपधगुणस्य कर्षेति निर्देश । अतस्तौदादिकस्य निरासः । पीड, रुध, कर्ष, एषा समाहारद्वन्द्वात्पञ्चम्यर्थे प्रथमा । पुस्त्वञ्चार्षम् । उपपूर्व पीडरुधकर्षः इति मध्यमपदलोपिसमासः । तदाह । उपपूर्वेभ्य इति । 'तृतीया प्रभृतीन्यन्यतरस्याम्' इति उपपदसमासविकल्प मत्वा आह । पाश्वयोरुपपीडमिति ॥ ौदादिकातु कृषेः काप्रत्यय एव न तु णमुल् । क्षेत्र उपकृष्य बीजान्यावपति । हलेनोप कृष्येति । यद्यपि तौदादिकाऽपि विलेखनार्थक एव । तथापि क्षेत्रविषयविलेखन एव तस्य प्रवृत्तेरित्याहुः । समासत्तौ । समासत्तिपद विवृणोति । सन्निकर्षे गम्यमाने इति । सन्निकर्षोंऽव्यवधानेन संयोग । केशग्राहमिति । सन्निकर्षपरमेतत् । अत्यन्त सन्निहिता युध्यन्ते इत्यर्थ । तदाह । युद्धसंरम्भादिति । युद्धातिशयवशाद्योद्धार परस्पर अत्यन्त सन्निहिता भवन्तीत्यर्थ । प्रमाणे च ॥ इत्येवेति ॥ तृतीयान्ते सप्तम्यन्ते चोपपदे धातोर्णमुल् स्यात् प्रमाणे गम्ये इत्यर्थः । हस्वः खण्डः खण्डिका । ह्यङ्गुलेनेति