आभ्यां परस्य क्त्व इट् स्यात् जरीत्वा—जरित्वा । ब्रश्चित्वा ।
३३२८ । उदितो वा । (७-२-५६)
उदितः परख्य क्त्व इड़ा । शमित्वा । “ अनुनासिकस्य कि-' (सू २६६६) इति दीर्घः । शान्त्वा । घृत्वा-देवित्वा ।
३३२९ । क्रमश्च क्त्वि । (६-४-१८)
क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे क्रान्त्वा-क्रन्त्वा । झलि' किम् । क्रमित्वा । *पूङश्च' (सू ३०५०) इति वेट् । पवित्वा-पूत्वा ।
३३३० । जान्तनशां विभाषा । (६-४-३२)
जान्तानां नशेश्च नलोपो वा स्यान् क्त्वि परे । भक्त्वा-भङ्क्त्वा । रक्त्वा-रङ्क्त्वा । *मस्जिनशोः-' (सू २५१७) इति नुम् । तस्य पक्षे लोपः । नंष्टा नष्टा । *रधादिभ्यश्च' (सू २५१४) इतीट्पक्षे । नशित्वा । झलादाविति वाच्यम्’ (वा ५०६६) । नेह । अजित्वा । ऊदित्वाद्वेट् ।
क्त्वि ॥ जरीत्वा-जरित्वेति ॥ 'श्रयुक. किति' इति निषेधे प्राप्त विधि. । 'वृतो वा इति इटो दीर्घविकल्प. । वश्वित्वेति । अत्र ऊदित्वादिडिकल्प प्राप्से निल्यमिट् । “ग्रहिज्या इति सम्प्रसारणम् । उदितो वा ॥ क्त्व इति ॥ 'जूत्रश्च्यो.’ इति पूर्वसूत्रात्तदनुवृत्तेरिति भावः । अप्राप्तविभाषेयम् । शमुधातोरिट्पक्षे उदाहरति । शामित्वेति ॥ इडभावे त्वाह । अनुनासिकस्येति ॥ यूत्वा-देवित्वेति । दिव्धातोरुदित्वात् खकायामिड़िकल्पः । ‘रलो व्युपधात्' इति कित्त्वविकल्पः । तत्र इडभावपक्षे कित्त्वपक्षे 'च्छोः’ इति वस्य ऊठि इकारस्य यणि यूत्वेति रूपम् । इट्पक्षे तु सत्यपि कित्वे झलादित्वाभावात् नोठ् । इटि कित्त्वाभावपक्षे तु उपधागुण इति भावः । क्रमश्च त्वि ॥ “नोपधाया.’ इत्यत. उपधाया इति “तनोते र्विभाषा' * ठूलोपे पूर्वस्य' इत्यत. दीर्घ इति “ अनुनासिकस्य कि' इत्यत इत्यतः िवभाषेति झलग्रहणञ्चानुवर्तते । तदाह । क्रम उपधाया इत्यादि ॥ “ अनुनासिकस्य केि' इति निले प्राप्त विकल्पोऽयम् । ऋक्रान्त्वेति ॥ क्रमुधातोरुदित्वादिड़िकल्पः । दीर्घपक्षे रूपम् । जान्त नशां ॥ 'श्रान्नलोप.’ इत्यतो नलोप इति “खेक स्कन्दिस्यन्दोः' इत्यतः कीति चानुवर्तते । तदाह । जान्तानामित्यादि । भक्त्वा -भङ्क्त्वेति ॥ 'भजेो आमर्दने' इत्यस्य रूपम् । रक्त्वा -रङक्त्वेति ॥ 'रञ्ज रागे' इत्यस्य रूपम् । नष्टा-नष्ठत्यत्राह । मस्जि इति ॥ तस्यति ॥ नशो नकारस्य 'जान्तनशाम्' इत्यनेन पाक्षिको लोप इत्यर्थः । झला दाविति ॥ 'जान्तनशा विभाषा' इति नलोपविकल्पः झलादावित्यर्थः । अजित्वेति