५९१ । मिथुने मनिः । उपसर्गक्रियासंबन्धो मिथुनम् । न तु स्त्रीपुंसौ । स्वरार्थमिदम् । सुशर्मा|
५९२ । सातिभ्यां मनिन्मानिणौ । स्यतीति साम । सामनी । आत्मा ।
५९३ । हनिमशिभ्यां सिकन् । हंसिका हंसयोषिति । मक्षिका ।
५९४ । कोररन् । कवरः ।
५९५ । गेिर उडच । गरुडः ।
५९६ । इन्देः कमिर्नलोपश्च । इदम् ।
५९७ । कायतेर्डिमिः । किम् ।
५९८ । सर्वधातुभ्यः ष्ट्रन् । वस्त्रम् । अस्त्रम् । शस्त्रम् । इस्मन्निति हृस्वत्वम् । छादनाच्छन्त्रम् ।
५९९ । भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च । भ्राष्ट्रः । गान्त्रं शक टम् । नान्त्रं स्तोत्रम् हान्त्रं मरणम् । वैष्ट्रं पिष्टपम् । आष्ट्रमाकाशम् ।
६०० । दिवेर्द्युच्च । द्यौत्रं ज्योतिः ।
६०१ । उषिखनिभ्यां केित् । उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।
जन्मप्रभावयोः' इति मेदिनी । सुशर्मेति ॥ कृदुत्तरपदस्वरेणान्तोदात्त पदम् । मनिनि तु मध्द्योदात्त स्यात् । सुष्ठु श्रृणातीति विग्रहः । स्यति दुःखयति दुरध्येयत्वात्साम । 'साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च' इति मेदिनी । 'आत्मा पुसि स्वभावेऽपि प्रसन्नमनसोरपि । धृतावपि मनीषाया शरीरब्रह्मणेोरपि' इति च । हनि ॥ 'मक्षिका भम्भराळी स्यात्' इति हारावळी । कवरः पाठक ' । 'बवयोरैक्यात्कबरी केशविन्यासः । 'जानपद' इति डीष् । अन्यत्र कबरा । गिर उडच् ॥ इद सूत्रं केचिन्न पठन्ति । अत एव गरुता डयत इति विगृह्य डप्रत्यये पृषोदरादित्वाल्लोपे गरुडशब्द व्युत्पादयन्ति । इन्देः कमिः ॥ उज्ज्वलदत्तस्तु कमिन्निति नित पपाठ । तन्न । 'इदन्ते पात्रमिन्द्रियाणाम् । इद ते सौम्य मधु' इत्यादौ नित्स्वराभावात् । दशपाद्यान्तु 'इणो दमक्’ इति सूत्रितम् । इदमिति ॥ सर्वनामशब्दो ऽयं प्रत्यक्षपरामशीं । कायतेर्डिमिः ॥ 'प्रयोजनाभावादेव मकारस्येत्सज्ञाविरहे सिद्धे इकारः उच्चारणार्थ । दशपाद्यान्तु डिमित्येव सूत्रितम् । किमिति सर्वनाम। सर्वे ॥ दशपाद्यान्तु ष्ट्रन्नित्येव सूत्रम्|
अत एवाधिक प्रक्षिप्तमित्याहुः । 'असु क्षेपणे ।’ 'अस्त्र प्रहरण चापे करवाले
नपुंसकम्' इति मेदिनी । 'पत्तून्तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः' इति मेदिनी । पिबतेः पात्रम् । षित्वात् डीष् । 'पात्र्यमत्रे त्रिषु क्लीब स्त्रुवादौ राजमन्त्रिणि । तीरद्धयान्तरे योग्ये' इति मेदिनी । भ्रस्जि ॥ “क्लीबेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः । वैष्ट्रं विष्टपम् । उष्टूः