पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६८९
बालमनोरमा

द्वित्वं । पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या । । जागर्तरकारो वा' (वा २२१६) । पक्षे श : । जागरा-जागर्या ।

३२७९ । अ प्रत्ययात् । (३-३-१०२)

प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्र बालमनोरमा विदारण एवायम्

३२८० । गुरोश्च हलः (३-३-१०३)

गुरुमतो हलन्तात्स्रियामकारः स्यात् । ईहा । ऊहा । 'गुरो: किम् । भक्तिः । “हल:’ किम् । नीतिः । * iनिष्ठायां सेट इति वक्तव्यम्’ (वा २२०८) नेह । आप्ति । “तितुत्र–’ (सू ३१६३) इति नेट् । दीप्ति । “तितुत्रेष्वग्रहादी नामिति वाच्यम्’ (वा ४३९३) । निगृहीतिः । निपठितिः ।

३२८१ । षिद्भिदादिभ्योऽड् । (३-३-१०४)

षिद्भयो भिद्ादिभ्यश्च स्त्रियामङ् । जूष् । जरा । त्रपूष । त्रपा । भान्तरन्या


गुणोऽपि निपातित इत्यर्थे निपात्यते इति शेष रिति । निपात्यत इति शेषः। हलादिशेषस्तु नात्र प्रवर्तते । तस्य षाष्टद्वित्वविषयत्वादित्याहुः। यडन्तातु 'अ प्रत्ययात्’ इति वक्ष्यमाण. अकारप्रत्ययः । तत्र अतो लोपे यलोपे च अटाटेति बोध्यम् । जागर्तेरकारो वेति । भावे वक्तव्य इति शेपः । अकारप्रत्यये उदाहरति । जाग रोति ॥ आर्धधातुकलक्षणो गुण. । शप्रत्यये उदाहरति । जागर्येति ॥ शित्वेन सार्वधातुकत्वात् यक् 'जाग्रेोऽविविण्णलूडित्सु' इति चव उणः । अ प्रत्ययात् । अ इति लुप्तप्रथमाकम् । भावे अकर्तरि च कारके इत्येव । गुरोश्च हलः ॥ धातोरित्यनुवृत्तम् हला विशेष्यते । तदन्तविधिः । हलन्तधातोर्गुरुत्वासम्भवादुरुमान् लक्ष्यते । तदाह । गुरुमत इति । भावे अकर्तरि च कारके इत्येव । निष्ठायामिति । निष्ठाया परतो यस्सेट् तस्मादेव गुरुमतो हलन्तादकारप्रत्यय इत्यर्थः । आप्तिरिति । आव्धातोर्निष्ठाया सेट्त्वाभावात् नाय मकारप्रत्ययः, किन्तु क्तिनेवेति भाव । दीप्तिरित्यत्र इटमाशङ्कय आह । तितुत्रेति । तितुत्रेष्विति ॥ 'तितुत्रतथसु' इति सूत्रे अग्रहादीनामिति वाच्यमित्यर्थः । निगृहीति रिति ॥ इटि 'ग्रहोऽलिटि’ इति दीर्घः । 'ग्रहिज्या' इति सम्प्रसारणम् । निगृहीति उपस्निहिति: निकुपितिः निपठितिः इति ग्रहादयो भाष्ये स्थिता । षिद्भिदादिभ्योऽङ् ॥ भावे अकर्तरि च कारके इत्येव । जरेति । डित्वलक्षणं गुणनिषेध बाधित्वा 'ऋदृशोऽडि । इति गुणः । विदारण इति ॥ वार्तिकम् । विदारणं ऊध्र्वविदलनम् । तस्मिन्नेवार्थे भिदेत्यड न्तमित्यर्थः । छिदा द्वैधीकरण इति ॥ इदमपि वार्तिकम् । यथा कथञ्चितिर्यगतिर्यग्वा 87