पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थ: पाद:]
६४५
बालमनोरमा

५७० । अज्यातिभ्यां च । आजिः संग्राम । आतिः पक्षी ।

५७१ । पादे च । पदाजिः । पदातिः ।

५७२ । अाशपणाया रुडायलुको च । अशेरुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।

५७३ । वातेर्डिच । वि: पक्षी । स्त्रियां वीत्यपि ।

५७४ । प्रे हरतेः कूपे । प्रहिः कुपः ।

५७५ । नो व्या यलोप पूर्वस्य च दीर्घः । व्येव्य इण् स्याद् यलो पश्च नेदीर्घः । नीवि: नीवी । वस्रग्रन्थौ मूलधने च ।

५७६ । समाने ख्यः स चोदात्तः । समानशब्दे उपपदे ख्या इत्यस्मा दिण् स्यात् स च डिच यलोपश्च । समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।


सीमन्तिनीवध्वोरुत्पत्तावोषधीभिदि' इति मेदिनी । “आजिः सभावनौ युद्धे' इति विश्वः । शरारिराजिराटिश्च' इत्यमर. । पादे च ॥ पादे उपपदे अज्यतिभ्यामिणु । 'पादस्य पदाज्यातिगोपहतेषु' इति पदादेशः । अत एव निर्देशान् बाहुलकादजेवीभावो न । 'पदाति पतिपदगपादातिकपदाजय. । पद्रश्च पदिकश्च' इत्यमर । आशि ॥ “राशिर्मेषादिपुञ्जयोः' इति मेदिनी । प्रे ॥ 'पुंस्येवान्धुः प्रहिः कूप उदपानन्तु पुसि वा' इत्यमरः । नौ ॥ ‘स्त्री - कटीवस्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । परिपण मूलधनम् । समाने ॥ इण् स्यादिति ॥ यत्तूज्वलदत्तेनोक्तम् । इञ् स्यात् स चोदात्त इतीति । तन्न । इणः सन्निधानात् इो विच्छिन्नत्वात् । यदपि तेनैव नौव्य इति पूर्वसूत्रे उक्तम् । इमेवात्रानुवर्तते, न त्विम् । उत्तरत्रोदात्तवचनाज्ज्ञापकादिति । तदपि न, स चोदात्त इति हि नाय प्रत्यय निर्देष्ट तच्छब्दः, किं तु समानशब्दस्य स्थाने विधेय निर्देष्टुं शब्दस्वरूपपर. । तथा च कथ ज्ञापकता । यदपि स इजिति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रङ्कतम् । तदपि न । विधायका भावात् । यदपि खरमञ्जरीकारादिभिः ‘समानस्य छन्दसि’ इति सूत्रेणेत्युक्त तदपि न । लोके सखिशब्दस्यासाधुतापतेः । अपि च –“सखा सखायमब्रवीत् । सखा सख्ये अयचवत् । सखा यस्त्वा ववृमहे । सखा सखिभ्य ईड्यः ।' इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् । एवञ्च इञ् उदात्त इति व्याख्यान वेदवार्तानभिज्ञत्वप्रयुक्तमेव । तथा च ज्ञापको पन्यासोऽपि गर्भस्रावेणैव गत. । अपि च । त्वत्पक्षे ‘सख्य इण्' इत्येव सूत्र्यता, किं सचेवत्यादिना शब्दतोऽर्थतश्च गौरवप्रसङ्गात् । अपि च । इणिल्यपि मातु । नौव्य इत्यादित्रिसूत्री जनिघसिभ्यामित्यतः प्रागेव उपयताम् । एव हि महदेव लाघवम् । स चोदात्त इति मण्डूकप्लुतौ ज्ञाषकख्यानाश्रयणात् । ननु ‘वातेर्डिच' इति डित्वोपजीवनार्थमित्थ पाठ इति चेत् । तहीणप्रकरणानन्तरमेव इञ्प्रकरण सर्वत्रास्तु । नौव्य इति सूत्रे इञ् पठ्यताम् । आड़ि