पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१२
[कृदन्त
सिध्दान्तकौमुदीसहिता

२९३७ । न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु । (३-२-२३)

एषु कृञ्जष्टा न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शव्दकार इत्यादि ।

२९३८ । स्तम्बशकृतोरिन् । (३-२-२४)

'व्रीहिवत्सयोरिति वक्तव्यम्' (वा २००३) स्तम्बकरित्रीहिः । शकृ त्करिर्वत्सः । “ ब्रीहिवत्सयोः' किम् । स्तम्बकारः । शकृत्कारः ।

२९३९ । हरतेद्वैतिनाथयोः पशौ । (३-२-२५ )

दृतिनाथयोरुपपदयोर्हञ्ज इन्स्यात् पशौ कर्तरि । दृतिं हरतीति दृति हरि: । नाथं नासारज्जु हरतीति नाथहरिः । “पशौ' किम् । दृतिहरः । नाथहरः ।

२९४० । फलेग्रहिरात्मम्भरिश्च । (३-२-२६)

फलानि गृह्णाति फलेग्रहिः । उपपद्स्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरि: । आत्मनो मुमागमः । भृज् इन् । चात्कुक्षि म्भरेिः । चान्द्रास्तु आत्मोद्रकुक्षिष्विति पेठ । “ ज्योत्स्नाकरम्बमुदरम्भरय श्वकाराः' इति मुराार

२९४१ । एजेः खश । (३-२-२८)

ण्यन्तादेजेः खश् स्यात् ।


इत्युच्यत । न शब्दश्लोक । शब्द, श्लोक, कलह, गाधा, वैर, चाटु, सूत्र, मन्त्र पद, एषान्नवानान्द्वन्द्वः । हेत्वादिष्विति ॥ 'कृञ्जो हेतुताच्छील्यानुलोम्येषु' इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः । स्तम्बशकृतोरिन् । स्तम्बे शकृति च कर्मण्युपपदे कृञ्ज इन् स्यात् । नकार इत् । ब्रवीहिवत्सयोरिति । व्रीहौ वत्से च कर्तरीत्यर्थः । स्तम्बशकृतायथासङ्खयमन्वय । स्तम्बकरिबहिरिति । स्तम्बं तृणनिचयं करोतीति विग्रहः । हरतेद्येतिनाथयोः ॥ दृतिः चर्मभत्रिका । दृतिहरिः श्वा इति वृत्तिः । नाथशब्दस्य विवरणम् । नासारज्जुरिति ॥ नासिकाप्रोतं रज्जुरित्यर्थः । नाथहरिरिति ॥ नासिकाप्रोत रज्जुके पशुविशेष रूढोऽयम् । फलेग्रहिः ॥ ग्रहेरिन्निति ॥ नतु 'गृहू ग्रहणे' इति ऋदुपधादित्यर्थः । मुमागम इति । आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थ । चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह । चात्कुक्षिम्भरिरिति । भाष्ये तु ‘भृञ्जः कुक्ष्यात्मनो र्मुश्चेति वक्तव्यम्’ इति स्थितम् । “ स्यादवन्ध्यः फलेग्रहिः’ इति वृक्षपयोये अमरः । “उभावा त्मम्भरिः कृक्षिम्भरिस्स्वोदरपूरके' इति विशेष्यनिन्नवर्गे । उदरम्भरिशब्द समर्थयितुमाह । चान्द्रास्त्विति ॥ एजेः खश् ॥ एजेरिति एजूधातोर्यहणम् । नत्विका निर्देशः ण्यन्तस्य