पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३४
[भावकर्मति
सिध्दान्तकौमुदीसहिता


ििन्नत्यत्वाच गुणे रपरेकृते अजन्तत्वाभावेऽप्युपदेशग्रहणाचिण्वदिट् । आरिता अतः । स्मारिता-स्मतः । “गुणोऽर्ति -' (सू २३८०) इत्यत्र नित्यग्रहणानु वृत्तेरुक्तत्वान्नेह गुणः । संस्क्रियते । * आांनांदताम् --' (सू ४१५) इति नलोपः । स्रस्यते । इदितस्तु नन्द्यते । सम्प्रसारणम् । इज्यत । “ अयडिय क्ङिति' (सू २६४९) । शय्यते ।

२७५९ । तनोतेर्यकि । (६-४-४४)

आकारोऽन्तादेशो वा स्यात् । तायते-तन्यते । * ये विभाषा' (सू २३१९) । जायते-जन्यते ।

२७६० । तपोऽनुतापे च । (३-१-६५)

तपश्च्लेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थः । कर्मणि लुङ् । यद्वा पापेन पुंसा कर्ख अशोचीत्यर्थः ।


त्यादि ।॥ कृते गुणे रपरत्वे अजन्तत्वाभावेऽपि उपदेशे योऽञ्च् तदन्तस्येत्युक्तश्चिण्वदिट् िनर्वाध इत्यर्थः । आरितेति ॥ कृतेऽपि गुणे रपरत्वे विण्वदिटि उपधावृद्धि । अर्तेति ॥ चिण्वदि डभावे रूपम् । एवं स्मारिता स्मर्तेत्यपि । ननु सम्पूर्वात् कृञ्ज. कर्मणि लकारे यकि “रिड् शय ग्लिड्क्षु' इति रिडादेशे “सम्परिभ्यां करोतौ भूषणे, समवाये च' इति सुटि सस्क्रियते इति वक्ष्यते। तत्र ‘गुणोऽर्ति’ इनि सयोगादित्वात् गुणः स्यादित्यत आह । नित्यग्रहणानुवृत्तेरिति ॥ 'नि- त्य छन्दसि’ इत्यतो नित्यमित्यनुवृत्ते’ ‘गुणोऽर्ति’ इत्यत्र नित्य यस्सयोगादिस्तस्यैव सयोगादिलक्षणेो गुण इति लभ्यते । कृञ्जतु न नित्य सयोगादि । सम्परिपूर्वकत्वाभावे तदभावादिति भाव. । अथ स्रसूधातोर्भावलकारे यकि विशेषमाह । अनिदितामिति नलोपः इति ॥ इदितस्त्वि ति ॥ “टु नदि समृद्धौ ’ इत्यस्माद्रावलकारे याकि इदित्वान्नलोपो नेत्यर्थः । अथ यजधातोः कर्म लकारे यकि विशेषमाह । सम्प्रसारणमिति ॥ “वचिस्वपियजादीनाम्' इत्यनेनेति भावः । शीड्धातोर्भवलकारे यकि विशेषमाह । अयङिय क्ङितीति ॥ तनोतेथैकि ॥ ‘विडूनोः इत्यतः आदिति ‘ये विभाषा’ इत्यतः विभाषेति चानुवर्तते । तदाह । आाकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते-तन्यते इति । कर्मणि लकारः । तपोऽनुतापे च ॥ ‘च्लेम्सिच्’ इत्यत. च्लेरिति ‘चिण् ते’ इत्यतश्चिण् इति ‘न रुधः’ इत्यतो नेति चानुवर्तते । चकारात्अ चः कर्म’ इत्यतः कर्मकर्तरीति समुचीयते । तदाह । तपश्च्ले रित्यादि । तत्र कर्मकर्तरि कर्मकर्तृप्रक्रियायामुदाहरिष्यति । अनुतापे कर्मलकारे उदाहरति । अन्वतप्त पापेनेति ॥ पापेनेति कर्तरि तृतीयेति मत्वा आह । पापङ्कत्रिंति ॥ अनुपूर्वस्य तप* पश्चात्तापार्थकत्वे असङ्गतिः । नहि पापस्य सूर्यादिवत्तपनशक्तिरस्ति । शोकार्थकत्वे अकर्मकत्वापत्तिरित्यत आह । अभ्याहत इति । अनुपूर्वस्तपिरिह उपसर्गवशात् अभिहननार्थक इति भावः । तस्य च सकर्मकत्वात् कर्मलकारः उपपद्यते इति मत्वा आह्। कर्मणि लुङिति ॥ शोकार्थकत्वमाश्रित्य