पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तृतीय: पाद:]
६१७
बालमनोरमा ।

३३४ । त्रो रश्च लो वा । “ तरुणस्तलुठना युवा ' ।

३३५ । क्षुधिपिशिामिथिभ्यः कित् । क्षुधुनो म्लेच्छजातिः । पिशुनः । मिथुनम् ।

३३६ । फलेर्गुक्च । फल्गुनः पार्थः । प्रज्ञाद्यण् । फाल्गुनः ।

३३७ । अशेललेशश्च । लशुनम् ।

३३८ । अर्जेर्णिलुक्च । अर्जुनः ।

३३९ । तृणाख्यायां चित् । चित्वादन्तोदात्तः । अर्जुनं तृणम् ।

३४० । अतश्च । अरुण ।

३४१ । अजियमिशीङ्भ्य श्च । “वयुनं देवमन्दिरम्' । यमुना । शयुनः

३४२ । वृतृवदिहानिकमिकषिभ्यः सः । वर्स तर्सम्। तर्सः एवसमुद्रयो ' वत्सः । वत्सं वक्षः । हंसः । * कंसोऽस्त्री पानभाजनम्' । कक्षम् अरण्यम् ।


त्रो रश्च ॥ “तरुण कुब्जपुष्पे ना रुचके यूनि च त्रिषु' इति मेदिनी । “तरुणी तलुनीति च इति द्विरूपेषु विश्व. । क्षुधिपिशि ॥ 'पिशुनडुहुमे स्मृतम् । कपिचक्रे च काके ना सूचक कूरयोत्रिषु । पृकाया पिशुना त्री स्यात्' इति मेदिनी । मिथुन तु द्वयो राशिभेदे स्त्रीपुसयुग्मके ' इति च । फले ॥ “फल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे ! तपस्यसज्ञमासे तत्पूर्णिमायाश्च फाल्गुनी' इति मेदिनी । आणिति ॥ प्रज्ञादित्वात्पक्षेऽणित्यर्थः । “फल्गुनः फाल्गुनोऽर्जुने इति द्विरूपकोश । अशेर्लशश्च ॥ ' अश भोजने' । अस्मादुनन् धातोर्लशादेशश्च । लशुन महाकन्दः । 'उशना लशुन वेश्म कश्मल विश्वमश्ववत्' इति मध्यतालव्येषु विश्वः । लस् चेति पाठस्तु प्रामादिक. । अजेर्णिलुक् च ॥ अत्र “पेणरनिटि' इति लोपेन सिद्धे णिलुक् चेत्युक्त फलचिन्त्यम् । “ अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत्। नपुसकन्तृण नेत्ररोगे चाप्यर्जुना गवि । उषायां बाहुदानद्याहुट्टिन्यामपि च कचित्' इति विश्वमेदिन्यौ । अर्तश्च ॥ “अरुणोऽव्यक्तररागेऽर्के सन्द्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । अरुणाऽतिविषा श्यामा मञ्जिष्ठा त्रिवृतासु च' इति मेदिनी । अजियमि ॥ 'विश्वानि देव वयुनानि विद्वान्’ इति मन्त्रे वयुनानि प्रजनानीति वेदभाष्यम् । वैदिकनिघण्टौ प्रज्ञापयाय प्रशस्यपयाय च वयुनशब्द पठितः । वृतृ ॥ वर्सन्तर्समिति ॥ ‘ति- तुत्र' इति नेट्। षत्वन्तु न भवति। बाहुलकेन षत्वे कर्तव्ये प्रत्ययसज्ञाया अप्रवृत्ते । कक्षशब्दे तु षत्व भवत्येव । एतच्च सर्वम्‘आदेशप्रत्यययो.’ इति सूत्रे भाष्यकैयटपदमञ्जरीषु स्पष्टमेव । उणादिवृति कृतस्तु सर्वेऽपीह भत्वमुदाजहूः। तेषामयमाशयः । अस्तु भाष्यप्रामाण्याद्वर्सन्तर्समिति दन्त्योऽपि साधुः । बाहुलकबललभ्यषत्वाभावस्य पाक्षिकत्वेऽपि बाधकाभावात् पक्षे पत्वमसुतु । वृषितृषि भ्याङ्कनि प्यन्तादेरचि घञ्जथे कप्रत्यये वा वर्षतर्षशब्दयोर्युर्वारत्वात् । अज्विधौ भियादीनामुप सङ्खयान नपुसके क्तादिनिवृत्त्यर्थम्’ इत्यत्र वर्षमित्याकरे उदाहृतत्वाचेति । तस्मादिह द्विरूपता 78