सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४८
[कृदन्त
सिध्दान्तकौमुदीसहिता


३०६९ । रुष्यमत्वरसङ्घुषास्वनाम् । (७-२-२८)

एभ्यो निष्ठाया इङ्का स्यान् । रुष्टः-रुषितः । आन्तः-अमितः । तूर्ण त्वरितः । अस्यादित्वे पफल मन्दम् । सङ्गुष्टः-सडुषितः । आस्वान्तः-आस्वनितः।

३०७० । हृषेलॉमसु । (७-२-२९)

हृषेनिष्ठाया इङ्का स्यात् लोमसु विषये । दृष्टं-हृषितं लोम । 'विस्मित प्रतिघातयोश्च' (वा ४४१७) । दृष्टो-हृषितो मैत्रः । विस्मित प्रातहता वेत्यर्थः । अन्यत्र तु, “हृषु अलीके' उदित्वान्निष्ठायां नेट् । 'हृष तुष्टौ' इट् ।

३०७१ । अपचितश्च । (७-२-३०)

चायेनिपातोऽयं वा । अपचित:-अपचायित


ज्ञापित इति ॥ अवाराादकस्य रूपम् । चाराादकस्य तु ज्ञापत इत्यव । रुष्यमत्वर ॥ रुषि, अम, त्वर, सघुष्, आस्वन्, एषान्द्वन्द्वः । णाररात निवृत्तम् । पञ्चम्यर्थे षष्ठी । तदाह । एभ्य इति ॥ वा स्यादिति ॥ 'वा दान्त' इत्यतस्तदनुवृत्तरिति भाव . । रुष्टः-रुषित इति ॥ 'तीषसह' इति रुषेो वेट्कत्वात् “यस्य विभाषा' इति निषेधे प्राप्त विकल्पोऽयम् । आन्तः-अमित इति ॥ ‘अम गत्यादिषु' त्क्तः । इडभावपक्षे “ अनुनासिकस्य ’ इति दीर्घ । तूर्णः त्वरित इति ॥ 'वि त्वरा सम्भ्रमे' क्तः, इडभावपक्षे “ज्वरत्वर' इत्यूठ् । रदाभ्याम्' इति नत्वम्, णत्वम् । “ आदितश्च' इति नित्यमिप्निषेधे प्राप्त विकल्पोऽयम् । आदित्वस्य तु फलमात्मनेपदमात्रम् । तदाह । अस्य आदित्वे फलम्मन्दमिति ॥ तथा चव “एध वृद्धौ' इत्यादिवत् हस्वानुबन्धत्वमेव न्याय्यामिति भाव । संघुष्टः-संघुषित इति ॥ *घुषिरविशब्दने' इति घुषेस्सम्पूर्वस्य नित्यमिण्निषेधे प्राप्त विकल्पोऽयम् । अास्वान्तः-अास्वनितः इति ॥ आङ्पूर्वस्वनेः क्तः । इडभावपक्षे “ अनुनासिकस्य' इति दीर्घ । ‘क्षुब्धस्वान्त' इति निपातनन्तु सम्पूर्वस्य स्वनेर्न भवति । परत्वादस्यैव विकल्पस्य प्रासारख्याहु । 'न वा ' इति सूत्रभाष्ये तु सघुषास्वनोर्विषये उभयत्र विभाषेत्युक्तम् । हृषलॉमसु ॥ लोमसु कर्तृष्विति बोध्यम् । इदश्च “अजयम्' इति सूत्र भाष्य स्पष्टम् । हृष्टम्-हृषितं लोमेति ॥ 'गत्यर्थाकर्मक' इति कर्तरि क्तः । रोमाञ्चितभूतमित्यर्थ । विास्मतप्रतिघातयोश्चेति ॥ वार्तिकमिदम् । हृषेर्निष्ठाया इड़ा'इति शेष । उदित्वादिति । उदितो वा' इति खकाया वेट्कत्वात् “यस्य विभाषा' इति निष्ठायात्रेडित्यर्थः । तथा अळीकेऽर्थे हृष्ट इत्येव । मृषोत्क्तवानित्यर्थः । इडिति ॥ * हृष तुष्टौ' इति धातोः ते इडेव भवतीत्यर्थ । हृषितः तुष्ट इत्यर्थः । विस्मितप्रतिघातयास्तु धातूनामनेकार्थत्वादृत्तिः । तत्र लोमसु विस्मितप्रतिघातयोश्च ‘हृषु अळीके' इत्यस्मात् “यस्य विभाषा' इति नित्यमिणिनषेध प्राप्त विभाषेयम् । “हृष तुष्टौ' इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषा इति विवेकः । अपचितश्च ॥ अपपूर्वस्य विओ ण्यन्तस्य निष्ठायाचिभावो निपात्यते' इति भाष्यम् । तदाह ।