पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
[स्वादि
सिद्धान्तकौमुदीसहिता

२५२७ । बभूथाततन्थजगृभ्मववर्थेति निगमे । (७-२-६४)

एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता-वरीता ।

२५२८ । लिङ्सिचोरात्मनेपदेषु । (७-२-४२)

वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि |

२५२९ । न लिङि । (७-२-३९)

वॄतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट-वृषीष्ट । अवारीत् । अवरिष्ट-अवरीष्ट-अवृत । धुञ् १२५६ कम्पने । धुनोति । धुनुते । अधौषीत् । अधोष्यत् । दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । 'स्वरतिसूति--' (सू २२७९) इति वेट् । दुधविथ-दुधोथ । किति लिटि तु 'श्र्युकः--' (सू २३८१) इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् । दुधुविव । 'स्तुसुधूञ्भ्यः -' (सू २३८५) इति नित्यमिट्। अधावीत् । अधविष्ट-अधोष्ट ।

अथ परस्मैपदिनः । टु दु १२५७ उपतापे । दुनोति । हि १२५८ गतौ वृद्धौ च |


ववार । वव्रुः । बभूथाततन्थ ॥ निगमो वेद । तदाह । एषां वेदे इति ॥ ननु 'कृसृभृवृ' इति निषेधादेव थलि ववर्थेति सिद्धे किमर्थ ववर्थग्रहणमित्यत आह । तेन भाषायां थलीडिति ॥ निगम एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः । वव्रे । वव्राते । ववृषे । 'वॄतो वा' इति मत्वा आह । वरिता-वरीतेति ॥ लिङ्सिचो: ॥ 'इट् सनि वा' इत्यतः इड्वा इत्यनुवर्तते । 'वॄतो वा' इत्यतो वॄत इति । तदाह । वृङ्वृञ्भ्यामित्यादिना ॥ न लिङि ॥ 'वॄतो वा' इत्यतो वॄत इत्यनुवर्तते । लिडीति षष्ठ्यर्थे सप्तमी । 'आर्धधातुकस्येट्' इत्यत इडित्यनुवृत्तं षष्ठ्या विपरिणम्यते । 'ग्रहोऽलिटि' इत्यतो दीर्घ इत्यनुवर्तते । तदाह । वॄतः इति ॥ वृड्वृञ्भ्यामॄकाराच्चेत्यर्थः । वरिषीष्टेति ॥ इट्पक्षे 'वॄतो वा' इति प्राप्तो दीर्घो न भवति । वृषीष्टेति ॥ इडभावपक्षे 'उश्च' इति कित्त्वान्न गुणः । अवारीदिति ॥ लुडि परस्मैपदे सिचि वृद्धि. । अवारिष्टाम् । अवारिषुः । 'सिचि च परस्मैपदेषु' इति निषेधादिह 'वॄतो वा' इति न दीर्घः । लुडस्तडि सिचि 'लिङ्सिचो:' इति इट्पक्षे 'वॄतो वा' इति दीर्घविकल्पं मत्वा आह । अवरिष्ट-अवरीष्टेति | अवृतेति ॥ इडभावपक्षे 'ह्रस्वादङ्गात्' इति सिचो लोप. । धुञ् कम्पने इति ॥ ह्रस्वान्तोऽयमनिट् । षुञ इव रूपाणि । दीर्घान्तोऽप्ययमित्यादि व्यक्तम् । अथ परस्मैपदिनः इति ॥ राध साध ससिद्धावित्येतत्पर्यन्ता इत्यर्थः । 'टु दु उपतापे' इत्यारभ्य 'स्मृ इत्येके' इत्येतत्पर्यन्ता धातवो ह्रस्वान्ताः । हि गताविति ॥ प्राहिणोतीत्यत्र भिन्नपदत्वात् णत्वे प्राप्ते आह । हिनु-