पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
[दिवादि
सिद्धान्तकौमुदीसहिता

दृङ् ११३३ परितापे । दूयते । दीङ् ११३४ क्षये । दीयते ।

२५०७ । दीङो युडचि क्ङिति । (६-४-६३)

दीङः परस्याजादेः क्डित आर्धधातुकस्य युट् स्यात् । 'वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ' (वा ४०६२) दिदीये ।

२५०८ । मीनातिमिनोतिदीङां ल्यपि च । (६-१-५०)

एषामात्त्वं स्याल्ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः । डीङ् ११३५ विहायसा गतौ । डीयते । धीङ् ११३६ आधारे । धीयते । दिध्ये । धेता । मीङ् १२३७ हिंसायाम् । हिसा अत्र प्राणवियोगः । मीयते । रीङ् ११३८ श्रवणे । रीयते । लीङ् ११३९ श्लेषणे ।

२५०९ । विभाषा लीयतेः । (६-१-५१)

लीयतेरिति यका निर्देशो न तु श्यना । लीलीङोरात्त्वं वा स्यादेज्विषये ल्यपि च । लेता-लाता । लेष्यते—लास्यते । 'एज्विषये' किम् । लीयते ।


षेधकाण्डारम्भसामर्थ्यादिति भावः । दूङ् परितापे इति ॥ पीडने पीडितीभवने वेत्यर्थः । आद्ये सकर्मक । द्वितीये अकर्मकः । दीङ् क्षये इति ॥ क्षयो ह्रस्वः नाशो वा । दीङो युडचि ॥ 'आर्धधातुके ' इत्यधिकृतम् अचा विशेष्यते । तदादिविधिः । दीड इति पञ्चमी । सप्तमी षष्ठ्यर्थे । तदाह । दीङः परस्येत्यादिना ॥ दिदी ए इति स्थिते परत्वात् 'एरनेकाचः' इति यणि प्राप्ते नित्यत्वात् युट् । टकार इत् । उकार उच्चारणार्थः । टित्त्वादाद्यवयवः । दीदीये इति रूपमिति भाव. । ननु युटि कृतेऽपि तस्यासिद्धत्वाद्यण् दुर्वारः। तथाच दिद्य्ये इति स्यात् । इकारो न श्रूयेत यकारद्वय श्रूयेत । इत्यत आह । वुग्युटाविति ॥ मीनातिमिनोति ॥ 'आदेच उपदेशेऽशिति' इत्यत. आदित्यनुवर्तते । तदाह । एषामात्त्वं स्यात् ल्यपीति ॥ चकारात् एचः अशितीति परनिमित्तं समुच्चीयते । तत्र एच इत्यनन्तर निमित्ते इति शेष । एज्निमित्ते अशिति प्रत्यये च परे इति फलितम् । तदाह । चकारादशित्येज्निमित्ते इति ॥ समुच्चीयत इति शेष.। लुड्याह । अदास्तेति ॥ इह आत्त्वे कृते डित्त्वे सत्यपि 'स्थाध्वोरिच्च' इति न भवति । स्थाध्वोरित्त्वे 'दीडः प्रतिषेधः' इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तिकादिति भावः । धीङ् आधारे इति ॥ आधारः आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषणे इति ॥ लीयते । लिल्ये । लिल्यिषे । विभाषा लीयतेः ॥ ननु लीयतेरिति श्यना निर्देशात् 'लीङ् श्लेषणे' इति श्नाविकरणस्य ग्रहण न स्यादित्यत आह । यका निर्देशः इति ॥ ‘सार्वधातुके यक्’ इति विहितयका लीयतेरिति निर्देशः सच श्यन्श्नान्तसाधारणः । यक उभयत्रापि साधारण्यादिति भावः । 'मीनातिमिनोति' इत्यतः ल्यपीति 'आदेच.' इत्यतः आदिति एच इति च । तदाह । लीलीङोरित्यादिना ॥