पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
[णिच्
सिद्धान्तकौमुदीसहिता

२६०१ । णौ च संश्चङोः । (२-४-५१)

सन्परे चङ्परे च णौ इङो गाङ्वा स्यात् । अद्ध्यजीगपत् । अद्ध्यापिपत् ।

२६०२ । सिध्द्यतेरपारलौकिके । (६-१-४९ )

ऐहलौकिकेऽर्थे विद्यमानस्य सिद्ध्यतेरेच आत्त्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । 'अपारलौकिके' किम् । तापसः सिद्ध्यति । तत्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ।

२६०३ । प्रजने वीयतेः । (६-१-५५)

अस्यैच आत्त्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति-वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । 'ऊदुपधाया गोहः' (सू २३६४) । गूहयति ।


णौ च संश्रङोः ॥ विषयसप्तमीयमित्याकरे स्पष्टम् । णौ विवक्षिते इति लभ्यते । 'इडश्च' इत्यतः इड इति 'गाड् लिटि' इत्यतो गाडिति 'विभाषा लुड्लृडो' इत्यतो विभाषेति चानुवर्तते । तदाह । सन्परे चड्परे चेत्यादि ॥ सन्परे चड्परे च णौ विवक्षिते इत्यर्थः । वेत्यादि । अध्द्यजीगपदिति ॥ णौ इडो गाडादेशे पुकि उपधाह्रस्वे अधि गप् इ अ त् इति स्थिते गाप इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्रस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम् । न च द्वित्वे कार्ये 'णावजादेशो न' इति द्वित्वात् प्राक् गाडादेशनिषेधः शङ्क्य: । अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात् । द्वित्वे कार्ये गाडादेशस्य निषेधे सति गाडः पूर्व 'अजादेर्द्वितीयस्य' इति णिच एव द्वित्वे सति प्रक्रियाया परिनिष्ठिते वा धातोरुत्तरखण्डे अवर्णाभावादिति भावः । गाडभावे 'क्रीड्जीना णौ' इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थिते पि इत्यस्य द्वित्वे रूपमिति भावः । सिध्द्यतेरपारलौकिके ॥ 'आदेच उपदेशे' इत्यस्मादादेच इति 'क्रीड्जीनाम्' इत्यस्माण्णाविति चानुवर्तते । तदाह । ऐहलौकिके इत्यादि ॥ अन्नमिति ॥ तन्निष्पादन तृप्त्यर्थत्वादैहलौकिकमिति भावः । तत्त्वमिति ॥ आत्मस्वरूपमित्यर्थः । सेधयति तापसं तपः इति ॥ तत्त्वन्निश्चाययतीत्यर्थः ।आत्मतत्त्वनिश्चयः आमुष्मिकफलक इति भावः । प्रजने वीयते. ॥ 'आदेच उपदेशे' इत्यस्मादादेच इति 'चिस्फुरो.' इत्यतो णाविति 'विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते । तदाह । अस्यैच इत्यादि ॥ वीयतेरिति न श्यना निर्देश. 'वी गतिप्रजनस्थानार्जनोपार्जनेषु' इत्यस्य लुग्विकरणस्थत्वात् । किन्तु यका निर्देशोऽयम् । तेन व्येञोऽपि ग्रहणम् । तस्यापि सम्प्रसारणे वीधातुना तुल्यत्वादिति केचित् । वतुतस्तु व्येञो न ग्रहणम् । तस्य प्रयोजनार्थकत्वाभावात् । तस्य णौ ‘शाच्छासा’ इति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भङ्ग्राहयतीति ॥ पुरोवातकाले गावो गर्भङ्गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू सवरणे' इत्यस्य गुणनिमित्ते अजादौ प्रत्यये परे उपधाया ऊत्त्वविधि स्मारयति । ऊदुपधाया गोहः इति । गूहयतीति ॥ लघूपधगुणापवादः