पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[भ्वादि
सिध्दान्तकौमुदीसहिता

रञ्जिमस्जी अदिपदी तुद् क्षुध् शुषिपुषी शिषिः ।

भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसम्मतेः ॥

'स्पर्ध ३ संघर्षे' । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ।

२२५९ । शर्पूर्वाः खयः । (७-४-६१)

अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । 'हलादिः शेषः' (२१७९) इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पधिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत ।


ट्कत्वमिति भावः । रञ्जिमस्जी इत्येकम्पदम् । तुद्क्षुदिति पृथक्कृते पदे । शुषिपुषी इत्येकम्पदम् । शिषिरित्यनन्तर इत्येते इति शेषः । नवेहेति ॥ नव धातव भाष्यानुक्ता अपि इद्दानुदात्तेषु परिगणिता इत्यर्थः । कुत इत्यत आह । व्याघ्रभूत्यादिसम्मतेरिति ॥ भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणन तु नवानामप्येषामुपलक्षणमिति भावः । तेन रक्त रागात् तदस्मिन्नन्नं प्रायेण, क्तोकृतमितप्रतिपन्ना , शुष्कधृष्टौ , क्तेननञ्विशिष्टेनेत्यादिसौत्रप्रयोगा., नुत्तमग्रः पुष्टः मड्क्ता मड्क्तव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् । इत्यनिटकारिकाः ॥ स्पर्धसंघर्षे इति ॥ वर्तते इति शेष । पराभिभवेति ॥ परस्याभिभवः पराजयः । तद्विषयके च्छेत्यर्थः । नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोस्सकर्मकन्वात् देवदत्तः यज्ञदत्त स्पर्धयतीत्यादौ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामित्यकर्मककार्यं कथमित्यत आह । धात्वर्थेनोपसंग्रहादर्कमक इति ॥ धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्वमिति सुप आत्मनः क्यजिति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः । नचैव सति पदव्यवस्थायां स्पर्धायामाङ् इत्यत्र कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थ इति मूलग्रन्थविरोध इति वाच्यम् । तत्र स्पर्धेरभिभवपूर्वकाह्वाने वृत्तिरित्यलम् । स्पर्धत इति ॥ कथ्यन्ता षट्त्रिशदनुदात्तेत इन्युक्तेरात्मनेपदम । एधधातुवत् लटि धातुरूपाणीति भावः । धातोरिजादित्वाभावादिजादेश्चेति लिट्याम् न । अत एव नानुप्रयोगोऽपि । किन्तु लिटस्तादेशे लिटस्तझयोरिति तस्यैशि लिटि धातोरितिद्वित्वे हलादिश्शेष इत्यभ्यासेप्रथमहल्व्यतिरिक्तहलां निवृत्तौ सस्पर्धे इति प्राप्ते । शर्पूर्वा इति । अभ्यासस्येति ॥ अत्रलोपोऽभ्यासस्येत्यतस्तदनुवृत्तेरिति भावः । शर्पूर्वाः खय इत्यत्र शर् पूर्व: येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर् न शिष्यते । शिष्यन्त इति ॥ हलादिश्शेष इत्यतश्शेष इत्यनुवृत्त कर्मणि घञन्तं बहुवचनान्ततया विपरिणम्यत इति भावः । तथाच प्रकृते अभ्यासे हल् पकारश्शिष्यते । नन्द्रास्संयोगादय इति रेफस्य द्वित्वनिषेधो न शक्यः । द्वितीयैकाजवयवस्यैव तन्निषेधात् । तदाह । पस्पर्ध इति ॥ नच वव्रश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यम् । हलादिश्शेष इत्यतोहि आदिरित्यप्यनुवर्तते । शर्व्यतिरिक्तवर्णापेक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते पस्पर्धिरे पस्पर्धिषे पस्पर्धाथे पस्पर्धिध्वे पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे इति लिटि रूपाणि सुगमानि । स्पर्धितेति ॥ लुटि एधधातुवत् रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति ॥ लृटि एधधातुवद्रूपाणीति भावः । स्पर्धतामिति ॥