पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२०१
बालमनोरमा ।

गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ।

२४६२ । घुमास्थागापाजहातिसां हलि । (६-४-६६)

एषामात ईत्स्यात् हलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत-अध्यैष्यत । इक् १०४७ स्मरणे । अयमप्यधिपूर्वः । 'अधीगर्थदयेशाम्–’ (सू ६१६) इति लिङ्गात् । अन्यथा हि 'इगर्थ–’ इत्येव ब्रूयात् । 'इण्वदिक इति वक्तव्यम्' (वा १५७७) । अधियन्ति । अध्यगात् ।


इत्यस्य न ग्रहणमित्युक्तम् । नापि ‘गाङ् गतौ' इत्यस्यात्र ग्रहणम् । तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः । स्थानिवत्त्वेनैव तत्सिद्धेः । तदाह । गाङादेशादिति ॥ एवञ्च सिच ङित्त्वे आह । घुमास्था ॥ 'षो अन्तकर्मणि' इत्यस्य कृतात्त्वस्य निर्देशः । घु मा स्था गा पा जहाति सा एषान्द्वन्द्वात्षष्ठी । 'आर्धधातुके' इत्यधिकृतम् 'आतो लोप इटि च' इत्यतः आत इति 'ईद्यति' इत्यतः ईदिति 'अनुदात्तोपदेश' इत्यतः क्ङिति इति चानुवर्तते । तदाह । एषामित्यादिना । अध्यगीष्टेति ॥ अधि अ गा स् त इत्यत्र आकारस्य ईकारे यणि सिचष्षत्वे तकारस्य ष्टुत्वेन ट इति भावः । ‘गातिस्था' इति न सिज्लोपः । परस्मैपदाभावात् । अध्यगीषाताम् । अध्यगीषत । अध्यगीष्ठाः । अध्यगीषाथाम् । अध्यगीढ्वम् । अध्यगीषि । अयगीष्वहि । अध्यगीष्महि । गाङभावपक्षे आह । अध्यैष्टेति ॥ अधि आ इ स् त इति स्थिते इकारस्य गुणे आटो वृद्धौ यणि षत्वष्टुत्वे इति भावः । अध्यैषाताम् । अध्यैषत । अध्यैष्ठाः । अध्यैषाथाम् । अध्यैड्ढ्वम् । 'धि च' इति सलोपः । अध्यैषि । अध्यैष्वहि । अध्यैष्महि । लृङ्याह । अध्यगीष्यतेति ॥ 'विभाषा लुङ्लृङो' इति गाङादेशे स्ये तस्य ‘गाङ्कुटादिभ्यः' इति ङित्त्वे ‘घुमास्था' इति ईत्त्वे अटि यणि षत्वमिति भावः । अध्यगीष्येतामित्यादि । गाङभावपक्षे आह । अध्यैष्यतेति ॥ अध्यैष्येतामित्यादि । इक् स्मरणे । अयमपीति ॥ इङ्धातुवदयमपि धातुर्नित्यमधिपूर्वक इत्यर्थः । ननु धातुपाठे इङमधिकृत्य नित्यमधिपूर्व इति वचनात्, भूवादिसूत्रभाष्याच्च इङो नित्यमधिपूर्वकत्वं युक्तम् । अस्य तु तथात्वे किम्प्रमाणमित्यत आह । अधीगर्थेति ॥ तत्र हि अधीगर्थेत्यनेन स्मरणार्थकधातुर्विवक्षितः । इग्धातोरधिपूर्वकत्वाभावेऽपि स्मरणार्थकत्वे इगर्थेत्येतावतैव स्मरणार्थकधातुलाभात् तत्र अधीति व्यर्थ स्यात् । अत इग्धातुरयं नित्यमधिपूर्वक एव स्मरणार्थक इति विज्ञायते इत्यर्थः । इण्वदिकः इति ॥ षष्ठ्यन्ताद्वतिः इणः यत्कार्यं 'इणो यण्’ इत्यादि तत् इको भवतीत्यर्थः । अध्द्येति, अधीतः, इति सिद्धवत्कृत्य आह । अधियन्तीति ॥ अन्तादेशे इयङपवादः 'इणो यण्’ इति यणिति भावः । अध्द्येषि । अधीथः । अधीथ । अध्द्येमि । अधीवः । अधीमः । अधीयाय । अतुसि तु द्वित्वे कृते अधि इ इ अतुसिति स्थिते 'इणो यण्' इति द्वितीयस्य इकारस्य यणि प्रथमस्य इकारस्य 'दीर्घ इणः किति' इति दीर्घे सवर्णदीर्घे, अधीयतुः । अधीयुः । अधीययिथ-अधीयेथ । अधीयथुः । अधीय । अधीयाय-अधीयय । अधीयिव । अधीयिम । अध्येता ।