पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
[अदादि
सिध्दान्तकौमुदीसहिता

कंस्ते । कंसाते । कंसते । 'अयमनिदित् इत्येके' कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । णिसि १०२५ चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । निंस्से । णिजि १०२६ शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । शिजि १०२७ अव्यक्ते शब्दे । शिङ्क्ते । पिजि १०२८ वर्णे । 'सम्पर्चने इत्येके' । उभयत्रेत्यन्ये । 'अवयवे इत्यपरे' । 'अव्यक्ते शब्दे' इतीतरे । पिङ्क्ते । 'पृजि' इत्येके । पृङ्क्ते । वृजी १०२९ वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । 'इदित्' इत्यन्ये । वृङ्क्ते । पृची १०३० सम्पर्चने । पृक्ते ।

षूङ् १०३१ प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता-सविता । 'भूसुवोः-' (सू २२२४) इति गुणनिषेधः । सुवै । सविषीष्ट । असविष्ट-असोष्ट । शीङ् १०३२ स्वप्ने ।


विशेष । तालव्यान्तः इति ॥ तालव्योष्मान्त इत्यर्थः । कष्टे इति ॥ व्रश्चेति शस्य षः ष्टुत्वम् । कक्षे इति ॥ शस्य षः षस्य 'षढोः' इति कः षत्वम् । कड्ढ्वे इति ॥ शस्य षः तस्य जश्त्वेन डः धस्य ष्टुत्वेन ढः । णिसि चुम्बने इति ॥ णोपदेशोऽयम् । नुमि 'नश्च' इत्यनुस्वारः निस्ते इत्यादि । निंस्से इति ॥ नुमोऽनुस्वारः थासः सेभावः । दन्त्यान्तोऽयमिति ॥ दन्त्योष्मान्तोऽयमित्यर्थः । बभ्रामेति ॥ 'नुम्विसर्जनीयशर्व्यवायेऽपि' इति सूत्रे वृत्त्यादौ तालव्योष्मान्तत्वोक्तेरिति भावः । णिजि शुद्धाविति ॥ णोपदेशोऽयम् । अनिट्सु इरित एव ग्रहणादय सेट् । निङ्क्ते इति ॥ नुमि निञ् ते इति स्थिते जस्य कुत्वेन गः तस्य चर्त्वेन कः नस्य परसवर्णो डकारः । निञ्जाते । निङ्क्षे । निञ्जाथे । निङ्ग्ध्वे । निञ्जे । निञ्ज्वहे । निञ्ज्महे । लिटि सयोगात्परत्वात् कित्त्वाभावान्नलोपो न । निनिञ्जे । निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्त । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति ॥ ॠदुपधोऽयम् । वृजीधातुः ॠदुपधः ईदित् अतो नुम् नेति भावः । पृची सम्पर्चने इति ॥ ॠदुपधोऽयम् । पपृचे इत्यादि । ईरादय पृच्यन्ता अनुदात्तेतो गता । षूड्धातुः षोपदेशः सेट् डित्वात्तङ् । सूते इति ॥ सुवाते । सुवते । सूषे । सुवाथे । सूध्वे । सुवे । सूवहे । सूमहे । सुषुविषे इति ॥ स्वरतीति इड्विकल्पं बाधित्वा 'श्र्युकः किति' इति निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् 'स्वरति सूति' इति इड्विकल्पम्मत्वा आह । सोता-सवितेति ॥ तिडस्तासा व्यवधानात् 'भूसुवोः' इति न गुणनिषेधः इति भावः । सोष्यते-सविष्यते । सूताम् । सुवाताम् । सूष्व । सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह । भूसुवोरिति । सुवै इति ॥ सुवावहै । सुवामहै। असूत ।