पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
[भ्वादि
सिध्दान्तकौमुदीसहिता

वधादेशोऽदन्तः 'आर्धधातुके' (सू २३०७) इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् 'अतो लोपः' (सू २३०८) । वध्यात् वध्यास्ताम् । 'आर्धधातुके' किम् । विध्यादौ हन्यात् । 'हन्तेः-' (सू ३५९) इति णत्वम् । प्रहण्यात् । अवधीत् ।

अथ चत्वारः स्वरितेतः । द्विष १०१३ अप्रीतौ । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति । द्वेक्ष्यते । द्वेष्टु-द्विष्टात् । द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ।

२४३५ । द्विषश्च । (३-४-११२)

लङो झेर्जुस् वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विष्यात् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् । दुह १०१४ प्रपूरणे । प्रपूरणं पूरणा-


हनो वधादेशः स्याल्लुडीत्यर्थः स्पष्टः । वधादेशोऽदन्तः इति ॥ धकारादकारो न सुखोच्चारणार्थ इति भावः । तत्प्रयोजनन्तु अनुपदमेव अवधीत् इत्यत्र वक्ष्यते । ननु आशीर्लिङि हन यादिति स्थिते आर्धधातुके परे कृतस्य वधादेशस्य आर्धधातुकोपदेशे अकारान्तत्वाभावात् कथं वध्द्यादित्यत्र अल्लोप इत्यत आह । विषयसप्तमीति ॥ तथाच आर्धधातुके विवक्षिते तत्प्रवृत्तेः प्रागेव वधादेशे कृते आर्धधातुकप्रवृित्तिरिति फलितम् । ततश्च आर्धधातुकोपदेशे वधादेशस्य अकारान्तत्वादल्लोपो निर्बाधः । तदाह । तेनेति ॥ अवधीदिति ॥ सिचि अल्लोपे कृते वधादेशस्य धकारान्ततया एकाच्त्वेऽप्यादेशोपदेशे अनेकाच्त्वेन ‘एकाच उपदेशे’ इति निषेधाभावात् सिच इट् । 'अतो हलादेः' इति वृद्धिस्तु न भवति । 'अचः परस्मिन्’ इत्यल्लोपस्य स्थानिवत्त्वात् । एतदर्थमेव हि वधादेशस्य अदन्तत्वमाश्रितम् । स्वरितेतः इति ॥ उभयपदिन इति फलितम् । द्विष अप्रीताविति ॥ अनिट् । द्वेष्टीति ॥ पित्त्वेन ङित्त्वाभावाल्लघूपधगुण इति भावः । द्विष्टः । द्विषन्ति । द्वेक्षि । द्विष्टः । द्विष्ट । द्वेष्मि । द्विष्वः । द्विष्मः । तडि उदाहरति । द्विष्टे इति ॥ ङित्वान्न गुणः । द्विषाते । द्विषते । द्विक्षे । द्विषाथे । द्विड्ढ्वे । द्विषे । द्विष्वहे । द्विष्महे । षढोरिति षस्य कत्वम्मत्वा आह । द्वेक्ष्यतीति । द्विड्ढीति ॥ हेर्धिः षस्य जश्त्वेन ड:। द्विष्टात् । द्विष्टम् । द्विष्ट। द्वेषाणीति ॥ आटः पित्त्वेन डित्त्वाभावात् गुणः षात्परत्वाण्णत्वम् । द्वेषाव । द्वेषाम । द्विष्टाम् । द्विषाताम् । द्विषताम् । द्विक्ष्व । द्विषाथाम् । द्विड्ढ्वम् । द्वेषै इति ॥ आटः पित्त्वेन डित्त्वाभावात् गुण इति भावः । अद्वेडिति ॥ लडस्तिप् गुणः इकारलोपः 'वाऽवसाने' इति चर्त्वजश्त्वे इति भावः । अद्विष्टाम् । द्विषश्च ॥ 'झेर्जुस्' इति 'लडश्शाकटायनस्य’ इति चानुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । लङो झेरिति । अद्विषन्निति ॥ अद्वेट् । अद्विष्टम् । अद्विष्ट । अद्वेषम् । अद्विष्व । अद्विष्म । विधिलिङि परस्मैपदे आह । द्विष्यादिति ॥ द्विष्याताम्, द्विष्युः, इत्यादि । तडि आह । द्विषीतेति ॥ द्विषीयाताम् । द्विषीरन् इत्यादि । आशीर्लिङि द्विष्यास्ताम् इत्यादि । तड्याह । द्विक्षीष्टेति ॥ 'लिड्सिचोरात्मनेपदेषु' इति कित्त्वान्न गुणः । द्विक्षीयास्तामित्यादि । लुङि परस्मैपदे आह ।