पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१८१
बालमनोरमा ।

मिट् । जघसिथ । आद । आदतुः । 'इडत्त्यर्त्ति-' (सू २३८४) इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ।

२४२५ । हुझल्भ्यो हेर्धिः । (६-४-१०१)

होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धि । अत्तात् । अदानि ।

२४२६ । अदः सर्वेषाम् । (७-३-१००)

अदः परस्यापृक्तसार्वधातुकस्याडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ।

२४२७ । लुङ्सनोर्घस्लृ । (२-४-३७)

अदो घस्लृ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् । हन १०१२ हिंसागत्योः । प्रणिहन्ति ।


जक्षिम । घसादेशाभावपक्षे त्वाह । आदेति ॥ थलि भारद्वाजनियमादिड्विकल्पे प्राप्ते आह । इडत्त्यर्तीति । आदिथेति ॥ आदथु । आद । आद । आदिव । आदिम । अत्ता । अत्स्यतीति ॥ अनिट् । दस्य तः । अत्तु-अत्तात् । अत्ताम् । अदन्तु । अद् हि इति स्थिते 'झयो होऽन्यतरस्याम्' इति हकारस्य पूर्वसवर्णविकल्पेन धकारविकल्पे प्राप्ते । हुझल्भ्यो हेर्धिः ॥ झलन्तेभ्यः इति ॥ अङ्गविशेषणत्वात् तदन्तविधिरिति भावः । अनेकाल्त्वात् सर्वादेशः । रुदिहीत्यत्र तु न । निर्दिश्यमानहेरिटा व्यवहितत्वात् । इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति ॥ धित्वात् परत्वात्तातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वम् । 'विप्रतिषेधे यद्बाधित तद्बाधितमेव' इति न्यायात् । अत्तम् । अत्त । अदानीति ॥ ‘आङुत्तमस्य’ इत्याङागमः । एतदर्थमेव आङागमे दीर्घोच्चारणमिति भावः । अदाव । अदाम । लडि आद् त् इति स्थिते । अदः सर्वेषाम् ॥ अद इति पञ्चमी । ‘तस्मादित्युत्तरस्य इति परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्ते ’ इत्यतः अपृक्ते इति 'तुरुस्तु शम्यमः' इत्यतस्सार्वधातुके इति चानुवर्तते । सप्तमीद्वयञ्च षष्ठ्या विपरिणम्यते । 'अड् गार्ग्यगालवयोः' इत्यतः अडित्यनुवर्तते । गार्ग्यगालवयोरित्यस्यानुवृत्तिनिवृत्तये सर्वेषामिति । तदाह । अदः परस्येत्यादिना ॥ टित्त्वादाद्यवयवः । तदाह । आददिति ॥ आत्तामिति ॥ अपृक्तग्रहणान्नाडागम इति भावः । विधिलिङि रूपमाह । अद्यादिति ॥ शपो लुकि अतः परत्वाभावात् 'अतो येयः' इति नेति भावः । मिपः अमि यासुटि सलोपे सवर्णदीर्घे अद्याम् । अद्याव । अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह । अद्यास्तामिति ॥ लुडि अद् स् त् इति स्थिते । लुङ्सनोर्घस्लृ ॥ 'अदो जग्धिः' इत्यत अद इत्यनुवर्तते । तदाह । अदेरिति ॥ लृदित्त्वस्य प्रयोजनमाह । लृदित्त्वादिति ॥ हनधातुरनिट् । प्रणिहन्तीति ॥ शपो लुक् ।