पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
बालमनोरमा
२१५७ । अनुदात्तङित आत्मनेपदम् । (१-३-१२)

अनुदात्तेत उपदेशे योङित्तदन्ताच्च धातोर्लस्य स्थान आत्मनेपदं स्यात् ।

२१५८ । स्वरितञितः कर्त्रभिप्राये क्रियाफले । (१-३-७८)

स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ।

२१५९ । शेषात्कर्तरि परस्मैपदम् । (१-३-७९)

आत्मनेपदनिमित्तहीनाध्दातोः कर्तरि परस्मैपदं स्यात् ।

पर्यवस्यति । अथ कस्माध्दातो. परस्मैपदम् कस्मादात्मनेपदमित्याकाक्षायामाह । अनुदात्तेति ॥ अनुदात्तश्च ड्च अनुदात्तडौ । तावितौ यस्य सः अनुदात्तडित् । तस्मात् अनुदात्तडितः । द्वन्द्वान्ते श्रूयमाण इच्छब्द प्रत्येक सम्बद्ध्यते । अनुदात्तेत: डितश्चेति लभ्यते । उपदेशेऽजनुनासिक इदित्यस्मात् मण्डूकालुत्या उपदेश इत्यनुवृत्तम् डित इत्यनेन सम्बध्यते । नत्वनुदात्त इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्सज्ञाया अप्रसक्तत्वेनाव्यभिचारात् । भूवादयो धातव इत्यस्मान्मण्डूकप्लुत्या धातव इत्यनुवृत्तम् पञ्चम्या विपरिणतम् अनुदात्तेता डिता च विशेष्यते । तत्रानुदात्तेदशे तदन्तविधेः प्रयोजनाभावात् डिदशे तदन्तविधि. । तदाह । अनुदात्तेत इत्यादिना । लस्यस्थान इति ॥ आत्मनेपदग्रहणलभ्यमिदम् । तिडां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र गाङ्कुटादिभ्य इति सन आतिदेशिकमेव डित्वम् । नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्र णिश्रीति चडन्तान्नात्मनेपदम् । डिदशे तदन्तविद्ध्यभावे तु बोभूयत इत्यादौ सनाद्यन्ता इति धातुसज्ञकात् यडन्तादात्मनेपदं न स्यात् । डित इत्येवोक्तौ तु यडो डित्वेऽपि तदन्तस्य धातोर्डित्वाभावादात्मनेपद न स्यात् । स्वरितञित इति ॥ स्वरितश्च ञ् च स्वरितञौ तौ इतौ यस्य तस्मादिति बहुव्रीहि । इच्छब्द. प्रत्येक सम्बध्यते । तदाह । स्वरितेतो ञितश्र्चेति ॥ धातोरित्यनन्तर लस्य स्थान इति शेषः । कर्तारमभिप्रौति गच्छ्तीति कर्त्रभिप्रायम् । कर्मण्यण् । तदाह । कर्तृगामिनीति ॥ एवञ्च होता याज्यया यजतीत्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाभावात् नात्मनेपदम् । तथा वेतनेन यज्ञदत्तभृतोदेवदत्तः पचतीत्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाभावान्नात्मनेपदम् । दक्षिणादिलाभस्तु न फलम् । लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिः तस्यैवात्र कियाफलशब्देन विवक्षितत्वात् । कर्तृगामिफलकक्रियावृत्तेर्धातोरित्यर्थ । आत्मनेपदन्तु धात्वर्थफलस्य कर्तृगामित्व द्योतयतीत्यलम् । शेषात्कर्तरीति ॥ अनुदात्तडित इति स्वरितञित इति चोक्तात् आत्मनेपद विषयादन्यश्शेषः । तदाह । आत्मनेपदनिमित्तहीनादिति ॥ अनेन भूधातोः कर्तरि लस्य परस्मैपद सिध्दम् । तत्र तिबादिनवके युगपत् पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्ते युष्मद्युपपदे समानाधिकरणे स्थनिन्यपि मद्ध्यमः । अस्मद्युत्तमः । शेषे प्रथमः । इति व्यवस्थां