पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
[भ्वादि
सिध्दान्तकौमुदीसहिता

इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ।

णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥

अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः । 'अण ४४४ रण ४४५ वण ४४६ भण ४४७ मण ४४८ कण ४४९ कण ४५० व्रण ४५१ भ्रण ४५२ ध्वण ४५३ शब्दार्थाः' । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । 'धणिः' अपि कैश्चित्पठ्यते । धणति । 'ओणृ ४५४ अपनयने' । ओणति । ओणांचकार । 'शोणृ ४५५ वर्णगत्योः' । शोणति । शुशोण । श्रोणृ ४५६ संघाते' । श्रोणति । 'श्लोणृ ४५७ च' । शोणादयस्त्रयोमी तालव्योष्मादयः । 'पैणृ ४५८ गतिप्रेरणश्लेषणेषु' । 'प्रैणृ' इति क्वचित्पठ्यते । पिप्रैण । 'ध्रण ४५९ शब्दे' । उपदेशे नान्तोयम् । 'रषाभ्याम्--' (२३५) इति णत्वम् । ध्रणति । णोपदेशफलं यङ्लुकि । दन्ध्रन्ति । 'बण इत्यपि केचित् । बेणतुः । बेणिथ । 'कन ४६० दीप्तिकान्तिगतिषु' । चकान । 'ष्टन


धानन्यायात्सोढव्यमेव । चङ्परे णौ यदङ्गमिति व्यख्याने तु अचीचकासदित्यत्र उभय स्यादेव । अङ्गस्य णिपरकत्वसत्त्वादिति योज्यम् । ननु चङ्परे णौ यल्लघ्विति चङ्परे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह । इति व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति ॥ आदर्तव्यतेति शेषः । ननु णौ इत्यस्यावृत्तिमभ्युपगम्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह । णेरग्लोपेऽपीति । अगितामिति ॥ कमु कान्तावित्यादीनामपीत्यर्थ.। सिद्धय इति ॥ दीर्घसन्वत्त्वसिध्द्यर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः । इति घिणिप्रभृतयः कम्यन्ता दश गता.। क्रम्यन्ता इति ॥ क्रमु पादविक्षेपे इत्येतत्पर्यन्ता इत्यर्थः । अनुनासिकान्ता इति शेषः । अणरणेति ॥ इत प्रभृति कनदीप्तावित्यतः प्राक् मूर्द्धन्यान्तः । ओणृ इति ॥ ॠदित्त्वं नाग्लोपीति निषेधार्थम् । ध्रणशब्द इति ॥ अदुपधोऽयम् । उपदेश इति ॥ धातूपदेशे अकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह । रषाभ्यामिति । णत्वमिति ॥ ननु स्वाभाविक एव णकार इत्यस्तु । किन्नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह । णोपदेशेति ॥ नकारस्थानिकणोपदेशस्य नश्चेत्यनुस्वारात्मक फल यङ्लुकि प्रत्येतव्यमित्यर्थः । दन्ध्रन्तीति ॥ ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषेनुगतोऽनुनासिकान्तस्येत्यभ्यासस्य नुकि उत्तरखण्डे णकारस्यासिद्धत्वे अनुस्वारे परसवर्णे तस्यासिद्धत्वात् णत्वाभावे नकारस्यैव श्रवणम् । स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेत इति भावः । बणेत्यपीति ॥ पवर्गतृतीयादिरिति भावः । कनदीप्तीत्यारभ्य अमगत्यादिष्वित्यतः प्राक् तवर्गपञ्चमान्ताः । ष्टनवनेति ॥ आद्यः षोपदेशः । ष्टुत्वसम्पन्नः