पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
[भ्वादि
सिध्दान्तकौमुदीसहिता

अभ्यासस्यात इकारः स्यात्सनि ।

२३१८ । दीर्घो लघोः (७-४-९४)

अभ्यासस्य लघोः दीर्घः स्यात्सन्वद्भावविषये । अचीकमत । णिङभावपक्षे ।

कमेश्च्लेश्चङ्वक्तव्यः ।

णेरभावान्न दीर्घसन्वद्भावौ । अचकमत ।

संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ।

तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥


च्छेदः । अत्र लोप इत्यतः अभ्यासस्येत्यनुवर्तते । भृञामिदित्यस्मात् इदिति । तदाह । अभ्यासस्येति ॥ किकम् अ त इति स्थितम् । दीर्घो लघोरिति ॥ अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते । तदाह । अभ्यासस्य लघोर्दीर्घ इति ॥ अभ्यासावयवस्य लघोरित्यर्थः । सन्वल्लघुनिचङ्पर इति सूत्र सन्वच्छब्दवर्जमनुवर्तते । तच्च प्राग्वदेव द्वेधा व्याख्येयम् । तथाच फलितमाह । सन्वद्भावविषय इति ॥ सन्यत इत्यत्र तपरत्व स्पष्टार्थमिति दीर्घोऽकित इति सूत्रे भाष्ये स्पष्टम् । तथाच कि कम् अ तेत्यत्र अभ्यासेकारस्य दीर्घे अभ्यासचुत्वे अडागमे परिनिष्ठितं रूपमाह । अचीकमतेति ॥ अत्र लघोर्णिपरत्व येननाव्यवधानन्यायाद्बोध्द्यम् । णिङभावपक्षेत्विति ॥ आयादय आर्धधातुकेवेति णिडो वैकल्पिकत्वादिति भाव. । कमेश्च्लेश्चड्वक्तव्य इति ॥ अण्यन्तत्वादप्राप्तौ वचनम् । णेरभावादिति ॥ णिडभावपक्षे कमिधातोरनुदात्तेत्त्वात्तडि प्रथमपुरुषैकवचने च्लेश्चङि द्वित्वे हलादिशेषे अभ्यासचुत्वे अडागमे अचकमतेति रूप वक्ष्यते । तत्र णेरभावात् दीर्घो लघोरित्यभ्यासलघोर्दीर्घो न भवति । तत्र लघुनि चङ्परेऽनग्लोप इत्यनुवर्त्य चङ्परे णावेव तद्विधानोक्ते । अत एव सन्वत्त्वाभावात्सन्यत इत्यभ्यासाकारस्य इत्त्वञ्च न भवतीत्यर्थ । दीर्घो लघोरिति दीर्घविधौ सन्वत्त्व न निमित्तम् । किन्तु लघुनि चङ्पर इत्यस्य तत्रानुवृत्या सन्वद्भावविषये तत्प्रवृत्तिः । अतः दीर्घसन्वद्भावाविति पृथगुक्तिः । अथ पञ्चभिः श्लोकैः सन्वद्भावसूत्र दीर्घोलरिघोरिति सूत्रञ्च विशदयति । संज्ञाया इत्यादिना ॥ अस्मिन् शास्त्रे कार्यकालं संज्ञापरिभाषमित्येकः पक्षः । कार्यकालमित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः । यथोद्देशं संज्ञापरिभाषमिति पक्षान्तरम् । उद्देशाः संज्ञापरिभाषाशास्त्राम्नानप्रदेशाः । तान् अनतिक्रम्य यथोद्देश । संज्ञाशास्त्रं परिभाषाशास्त्रञ्च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षित स्वस्वमर्थं समर्थयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषाभ्यान्तदर्थस्यैवोपस्थितिः । न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः । सन्वल्लघुनीति सूत्रे, दीर्घो लघोरिति सूत्रे च, अङ्गस्येति, अभ्यासस्येति, चानुवृत्तम् । तत्र कार्यकालपक्षे पूर्वोऽभ्यास इति सूत्र सन्निहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वः अभ्याससंज्ञः स सन्वद्भवतीति फलितम् । तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी । नत्ववयवषष्ठी । कारकषष्ठ्या बलवत्त्वात् । अङ्गञ्च प्रत्यये