पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९०
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

१९४२ । बलादिभ्यो मतुबन्यतरस्याम् । (५-२-१३६)

बलवान्-बली । उत्साहवान्-उत्साही ।

१९४३ । संज्ञायां मन्माभ्याम् । (५-२-१३७)

मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । मा । होमिनी । । सोमिनी । “संज्ञायाम्' किम् । सोमवान् ।

१९४४ । कंशम्भ्यां वभयुस्तितुतयसः । (५-२-१३८)

'कम्’ 'शम्’ इति मान्तौ । 'कम्' इत्युदकसुखयोः । 'शम्' इति

सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्यसोः सकारः पदत्वार्थः । कंवः । कंभः । कंयुः । कतिः । कंतुः । कंतः । कंयः । शंवः । शंभः । शंयुः । शंतिः । शंतुः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकार परस्यानुनासिकौ वयौ ।

१९४५ । तुन्दिवलिवटेर्भः । (५-२-१३९)

वृद्धा नाभिस्तुन्दिः । “मूर्धन्योपधोऽयम्' इति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलिनोऽपि ।


अर्थः अस्येति विग्रहः । अर्थो नास्तीति यावत् । अत्र विरोधादस्तीति न सम्बद्ध्यते । अर्थोऽसन्निहितोऽस्येत्यर्थे अप्राप्त एव इनिर्विधीयते इति कैयटः । प्रत्ययविधौ तदन्तविधिनिषेधादाह । तदन्ताच्चेति ।। अर्थशब्दान्तादपि इनिर्वक्तव्य इत्यर्थः । बलादिभ्यो ।। मतुबभावपक्षे सन्निहितः इनिरित्यभिप्रेत्योदाहरति । बलवान्बलीति । संज्ञायां मन्माभ्याम् ।। प्रथिमिनीति ॥ 'पृथ्वादिभ्य इमनिज्वा' इति इमनिजन्तः प्रथिमन्शब्दः । अत्र मनोऽनर्थकत्वे ऽपि “अनिनस्मन्' इति तदन्तविधिना इमनिजन्तोऽपि गृह्यते । प्रथिमन्शब्दादिनिप्रत्यये टिलोपे नान्तलक्षणङीपि प्रथिमिनीशब्दः । दामिनीति ॥ दामन्शब्दादिनौ टिलोपे डीबिति भावः । मेति ॥ मान्तोदाहरणसूचनमिदम् । होमिनी। सोमिनीति । होमशब्दात्सोमशब्दाच्च इनौ ङीबिति भावः । कंशंभ्याम् ॥ व, भ, युस्, ति, तु. त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति ॥ मत्वर्थे इति शेषः । पदत्वार्थ इति ।। अन्यथा कम् इत्यस्मात् युप्रत्यये यप्रत्यये च कृते भत्वात् पदत्वाभावादनुस्वारो न स्यादिति भावः । वकारयकारपरस्येति ॥ बहुव्रीहिः । वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः । तुन्दिवलि ।। तुन्दि, वलि, वटि, एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः । समाहारद्वन्द्वात्पञ्चम्येकवचनम् । पुंस्त्वमार्षम् । वटिभ इति ॥ “वट वेष्टने ' । वटनं वटिः अस्या