पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्]
८९१
बालमनोरमा ।

१९४६ । अहंशुभमोर्युस् । (५-२-१४०)

'अहम्' इति मान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः-अह ङ्कारवान् । शुभंयुः, शुभान्वितः । इति तद्धिते पञ्चमाध्यायस्य द्वितीयपादे मत्वर्थीप्रकरणम् । अथ तद्धिते तृतीयपादे प्राग्दिशीयप्रकरणम् ॥

१९४७ । प्राग्दिशो विभक्तिः । (५-३-१)

दिक्छब्देभ्यः इत्यतः प्राग्वक्ष्यमाणाः प्रत्ययाः विभक्तिसंज्ञाः स्युः । अथ स्वार्थिकाः प्रत्ययाः । “ समर्थानाम्' इति ’प्रथमात्' इति च निवृत्तम् । 'वा' इति त्वनुवर्तत एव ।

१९४८ ॥ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः । (५-३-२)

किम: सर्वनाम्रो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ।


स्त्तीति विग्रहः । अहंशुभमोर्युस् ॥ अहंयुश्शुभंयुरित्यत्र सुब्लुकमाशङ्क्य आह । अहमित्यादीति ॥ सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिद्ध्यति ॥ इति तद्धिते पञ्चमाध्यायस्य द्वितीयपादे मत्वर्थीयप्रकरणम् । अथ पञ्चमाध्यायस्य तृतीयपादे प्राग्दिशीयप्रकरणं निरूप्यते—प्राग्दिंशो विभक्तिः ॥ दिक्छब्देन तद्घटितं सूत्र विवक्षितमित्यभिप्रेत्य आह । दिक्छब्देभ्य इत्यत इति ॥ विभक्तिसंज्ञका इति ॥ तत्फलन्तु “न विभक्तौ तुस्माः’ इति निषेधः । त्यदाद्यत्वम् । ‘इदमस्तृतीयादिर्विभक्तिः’ इति स्वरश्च । स्वार्थिका इति ॥ स्वीयप्रकृत्यर्थे भवाः इत्यर्थः । तसिलादिष्वर्थनिर्देशाभावात् अतिशायने इत्यादीनां प्रकृत्यर्थविशेषणत्वाच्चेति भावः । निवृत्तमिति ।। अत्रोपपत्तिः ‘समर्थानाम्' इत्यत्रोक्ता । अनुवर्तते एवेति ।। व्याख्यानमेवात्र शरणम् । किंसर्वनाम ॥ अद्यादिभ्य इति च्छेदः । प्राग्दिश इत्यनुवर्तते । तदाह । प्राग्दिशोऽधिक्रियते इति ॥ विधेयानिर्देशादधिकारोऽयमिति भावः । किमः सर्वनामत्वे ऽपि द्व्यादिपर्युदासात् पृथग्ग्रहणम् । द्व्यादिषु किंशब्दपाठस्तु त्वञ्च कश्च कौ, अहश्च कश्च कौ, इत्यत्र ‘त्यदादीनां मिथः सहोत्तौ' इति किमः शेषत्वार्थः । अथ वक्ष्यमाणतसिलादिप्रत्यये परे