पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७४
[मत्वर्थीय
सिद्धान्तकौमुदीसहिता

कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवो द्विती यको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । ’रोगे' किम् । द्वितीयो दिवसोऽस्य ।

१८८२ । तस्मिन्नन्नं प्रायेण संज्ञायाम् । (५-२-८२)

प्रथमान्तात्सप्तम्यर्थे कन्स्याद्यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडा पूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी । “ वटकेभ्य इनिर्वाच्यः' (वा ३१७५) । वटकिनी ।

१८८३ । कुल्माषादञ् । (५-२-८३)

कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ।

१८८४ । श्रोत्रियंश्छन्दोऽधीते । (५-२-८४)

श्रोत्रियः । “वा' इत्यनुवृत्तेश्छान्दसः ।

१८८५ । श्राद्धमनेन भुक्तमिनिठनौ । (५-२-८५)

श्राद्धी-श्राद्धिकः ।

१८८६ । पूर्वादिनिः । (५-२-८६)

पूर्वे कृतमनेन पूर्वी ।


प्रयोजनवचनाच्चेति ॥ यथोक्तविभक्त्यन्तादिति शेषः । कालशब्देनात्र कालवृत्तिपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्यते, न तु मासादिशब्दः । व्याख्यानात् । तदाह । द्वितीयेऽहनीति ॥ प्रयुज्यतेऽनेनेति करणे ल्युटि प्रयोजनं साधनम् । कर्मणि ल्युटि तु फलम् । तदाह । प्रयोजनङ्करणं रोगस्य फलं वेति ॥ तदस्मिन्नन्नं ।। प्रथमान्तादन्नवाचकात् अस्मिन्नित्यर्थे कन् स्यात् अन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः । वटकेभ्यः इति ॥ संज्ञायामित्येव । वटकिनीति ॥ वटकाः प्रायेण अन्नमस्याम्पौर्णमास्यामिति विग्रहः । कुल्माषादञ् ॥ कनोऽपवादः । “स्याद्यावकस्तु कुल्माषः चणको हरिमन्थकः” इत्यमरः । श्रोत्रियंश्छन्दोऽधीते ॥ द्वितीयान्ताच्छन्दश्शब्दात् अधीते इत्यर्थे घन्, प्रकृतेः श्रोत्र देशश्च निपात्यते । अध्येत्रणोऽपवादः । वेत्यनुवृत्तेरिति ॥ “तावतिथम्’ इति सूत्रान्मण्डूकप्लुत्येति शेषः । ततश्च घनभावे पूर्वसूत्रादनुवृत्तोऽणिति भावः । वाग्रहणाननुवृत्तौ तु घना अध्येत्रणो बाधः स्यादिति बोध्यम् । श्राद्धमनेन ॥ प्रथमान्तात् श्राद्धशब्दात् भुक्तमनेनेत्यर्थे इनिठनौ एतौ स्त इत्यर्थः । श्राद्धसाधनद्रव्ये श्राद्धशब्दो लाक्षणिकः। इनिप्रत्यये नकारादिकार उच्चारणार्थः । पूर्वादिनिः ॥ अनेनेति कर्तृतृतीयान्तमनुवर्तते । काङ्क्रियाम्प्रति कर्तेत्याकाङ्क्षायाम्भुक्तं पीतमित्यादि यत्किश्चित्क्रियापदमध्याहार्यम् । उपस्थितत्वात् कृञर्थभूतङ्क्रियासामान्यमेव प्रतीयते ।