पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६८
[शैषिक
सिद्धान्तकौमुदीसहिता

१४३८ । अनुशतिकादीनां च । (७-३-२०)

एषामुभयपदवृद्धिः स्यात् ञिति णिति किति च । आधिदैविकम् । आधिभौतिकम् । ऐहलौकिकम् । पारलौकिकम् । अध्यात्मादिराकृतिगणः ।

१४३९ । देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् । (७-३-१)

एषां पञ्चानां वृद्धिप्राप्तावादेरचः आत् ञिति णिति किति च । दाविकम् । देविकाकूले भवाः दाविकाकूलाः शालयः । शिंशपाया विकार: शांशपश्चमसः । 'पलाशादिभ्यो वा' (सू १५२१) इत्यञ् । दित्यौहः इदं दात्यौहम् । दीर्घसत्रे भवं दार्धसत्रम् । श्रेयसि भवं श्रायसम् ।

१४४० । ग्रामात्पर्यनुपूर्वात् । (४-३-६१)

ठञ् स्यात् । 'अव्ययाभावात्' इत्येव । पारिग्रामिकः । आनुग्रामिकः ।

१४४१ । जिह्वामूलाङ्गुलेश्छः । (४-३-६२)

जिह्वामूलीयम् । अङ्गुळीयम् ।

१४४२ । वर्गान्ताच्च । (४-३-६३)

कवर्गीयम् ।


भवमित्यर्थः । अनुशतिकादीनाञ्च ॥ आदिवृद्धिप्रकरणे उत्तरपदस्य, पूर्वपदस्य चेत्यधिकारे इदं सूत्रम् । तदाह । एषामिति ॥ आधिदैविकमिति ॥ देवेष्वित्यधिदेवम्, तत्र भवमित्यर्थः । ठञि उभयपदवृद्धिः । आधिभौतिकमिति । भूतेष्वित्यधिभूतम् । तत्र भवमित्यर्थः । ऐहलौकिकमिति ॥ इह लोके भवमित्यर्थः । पारलौकिकमिति ॥ परलोके भवमित्यर्थः । सर्वत्र ठञि उभयपदवृद्धिः । देविका ॥ आदिवृद्धिप्रकरणे इदं सूत्रम् । एषामिति ॥ देविका, शिंशपा, दित्यवाह, दीर्घसत्र, श्रेयस् इत्येषामित्यर्थः । वृद्धिप्राप्ताविति ॥ आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरचः आकारः स्यादित्यर्थः । दाविकमिति ॥ देविका नाम नदी, तस्याम्भवमित्यर्थः । दाविकाकूला इति ॥ उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरणम् । अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति ॥ इकारस्य आकारः, अञि वृद्धिः, शिंशपाशब्दस्य पलाशादौ पाठात् पाक्षिकोऽञ् । तदभावेऽणित्यर्थः । दात्यौहमिति ॥ दित्यवाहशब्दात् 'तस्येदम्' इत्यणि 'वाह ऊठ्’ इति सम्प्रसारणं, पूर्वरूपम् । 'एत्येधत्यठ्सु’ इति वृद्धिः। इकारस्य आदिवृध्यपवादः आकारः। दार्धसत्त्रमिति ॥ ‘तस्येदम्’ इत्यण् आदेरीकारस्य आकारः । श्रायसमिति ॥ तत्र भवः इत्यणि एकारस्य आकारः । ग्रामात्पर्यनुपूर्वात् ॥ ठञ् स्यादिति ॥ 'अन्तःपूर्वपदात्' इत्यतः तदनुवृत्तेरिति भावः । जिह्वामूलांगुलेश्छः ॥ 'शरीरावयवाच्च' इति यतोऽपवादः। वर्गान्ताञ्च॥ कवर्गीयमिति ॥