पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६६२
[उणादयः
सिद्धान्तकौमुदीसहिता

इति किब्दीर्घौं प्रक्रम्य, “परौ ब्रजे.’ इति सूत्रस्य पाठात् । अस्मिन्नशे पञ्चपादीदशपाद्योरेक वाक्यत्वात् । यदपि प्राचो ग्रन्थे कचित्पठ्यते चिाणिति तदायपाणिनीयत्वादुपेक्ष्यम् । एतेन प्रघट्टकान्तरे तु परित्रजा दीर्घश्चेति केचिदिति प्राचो ग्रन्थोऽपि प्रत्युक्तः । सूत्रारूढे सर्वसम्मते चार्थे केचिदित्युत्तेरप्रामाणिकत्वात् । यदपि धनर्तिचक्षिडुपिनपिजनियजेरुस् इति पठित तदप्य नाकरम् । तथा हि । जनरुास । अर्तिपवपियजितनिधनितपिभ्यो नित् । एतेर्णिञ्च । 'चक्षेः शिञ्च' इति सर्वसम्मत पाठ । “वपूषि तस्मै वपुषेो वपुष्टरम्' इत्यादिमन्त्रेष्वाद्युदात्ततया अनु कूलश्च । वेदभाष्येऽप्येवमेव स्थितम् ॥ इति द्वितीये प्रमादाः ॥ तृतीयेऽपि * स्तनिदूषिपुषि गदिमदिहृदिभ्यो णरित्नुच्’ इति प्राचा पठितम् । तत्र दूषिहृदी प्राचां वृत्तिकृता ग्रन्थे कापि न पठितौ । दूषयित्नु हृदयित्नुरिति प्रयोगोऽप्याकरे न दृष्टः । स्तनिहृषिपुषिमुदिगदिमदिभ्य इति हि पञ्चपादीपाठ । घुषिगन्धिमण्डिजनिगमिभ्य इति दशपाद्यामधिकमित्यन्यदेतत् । यदपि श्रुदक्षिस्पृहिगृहिदृजिभ्य आय्य इति पठित्वा दाराय्य जयाय्य इति प्राचेोक्त तदपि न । दृजिग्रहणस्याकरविरुद्धत्वात् । यदपि जूविशिभ्यां झञ् गण्डिमण्डिजनिन्दिभ्यश्चेत्युद्धका गण्ड यन्तो जनयन्त इत्युदाहृत प्राचवा, यञ्च गण्डयन्त इति प्रतीकमुपादाय मेघनादमिति व्याख्याय गडि वदनैकदेशे' इति व्याख्यातृभिर्विवृतं तदेतत्सर्व प्रामादिकम् । तथा हि उणादिवृत्तिषु गडीति निरनुषङ्ग पठित्वा “गड सेचने' इति विवृतम् । अयामन्त' इति सूत्रवृत्तिन्यासहरदत्तादि सकलग्रन्थेष्वेवम् । माधवग्रन्थेऽन्येवमेव । युक्तचैतत् । मघ इति व्याख्यान प्रति सचनार्थ स्यैवानुगुणत्वात् । जनेन पाठोऽयप्रामाणिक । जिधातुं पठित्वा जयन्तः पाकशासनिरिति सर्वैर्निवृत्तत्वात् अप्रसिद्धत्वाच ॥ इति तृतीये प्राचः प्रमादाः ॥ यदपि कृगृस्तृजागृभ्य किन् । गीर्तिः स्तृविरिति । तदाप लापत्रमप्रयुक्तमव । ‘कृ विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने' इति प्राचेो ग्रन्थ विवृण्वतामुक्तिरपि मूलाशुछैव हेया । जूगृस्तृजागृभ्यः किन् इति पाठः उणादवृत्तकृता माधवादीनाञ्च सम्मत. । जीविं पशु । शीर्विहिंस्र. । स्तीर्विरध्वर्यु रिति च तत्तद्वन्थेष्दाहृतम् । स्तृ इत्यस्य दीर्घौन्तत्वे एव हि, 'ऋत इद्धातो' इतीत्व लभ्यते न तु हस्वान्तत्वेऽपि । तस्माद्यथाकरमेव ग्रहीतुमुवितामिति दिक् । 'लाज्याहात्वरिभ्यो निरित्य प्यनाकरम् । वीज्याज्वरिभ्यो निरिति पठित्वा सूत्रद्वयानन्तरं वहिश्रीति सूत्रे ग्लाहात्वरिभ्यो नित्’ इति सूत्रितत्वात् । तूणीरथ. सदानव इत्यादावाद्युदात्तदर्शनाच्च । न च 'त्रियां क्तिन् इत्यधिकारस्थं वार्तिकमेवेद प्राचोदाहृत न तूणादिस्थमिति वाच्यम् । एवमपि त्वरते पाठस्यानु चितत्वात् । न ह्यसौ वार्तिकेऽस्तीति दिक् । एवं संस्त्याने स्त्यायतेर्डडिति प्राचोदाहृतमप्यनाकरम् । स्यायतेङ्गंडित्येव सूत्रस्याकरे पञ्चपाद्यान्दशपाद्याश्च उपलम्भात् । सस्याने स्यायतेङ्केड् स्त्री सूते सप्प्रसवे पुमान्' इति तु भाष्ये श्लोकपाठ । स एव माधवेनोपन्यस्तः । न तु सूत्रपाठस्य तथात्वं दृश्यते । एतद्भन्थव्याख्यातृणामाप प्रमादा ऊह्या । यथा पाणिन्यादिमुनीनिति व्याचक्षाणैरुक्तम् । मनेरुचोपधाया इति । न ह्यवविध सूत्र पञ्चपाद्या दशपाद्यामप्यस्ति । अत इत्यनुवर्तमाने मनेरुचेति सूत्रितत्वात् इति दिक् ॥ इति चतुर्थे प्राचः प्रमादाः ॥