पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीरस्तु ॥

अथ उत्तरकृदन्तप्रकरणम्
  ' ३१६९ । उणाद्यो बहुलम् । (३-३-१)'

  ॥ एते वर्तमाने संज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः । ।
    ॥ संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । ।
॥ कार्याद्विद्यादनूबन्धमेतच्छास्रमुणादिषु' (भाष्यम्) ।
  '॥ ३१७० । भूतेऽपि दृश्यन्ते । (२-३-२) ।'
३१७१ । भविष्यति गम्याद्यः । (३-३-३)
  ॥ ३१७२ । दाशगोौ संप्रदाने । (३-४-७३) ।



अथ उत्तरकृदन्तप्रक्रिया. निरूप्यन्ते—उणाद्यो बहुलम् ॥ तृतीयेऽछद्याये तृतीय पादस्यदमादिम सूत्रम् । वर्तमाने संज्ञायाञ्चेति ॥ ‘वतमाने लट् ’ इत्यतः 'पुवस्सज्ञायाम् ' इत्यतश्च तदनुवृत्तेरिति भाव. । अत एव नजि हन एह च नञ्पूर्वाद्धन्तेरसिप्रत्यये प्रकृते एहादेशे व्युत्पन्न अनेहस्शब्दो वर्तमानकाल एवेत्युक्त भाष्ये । सज्ञाशब्दश्चात्र रूढशब्दपरः । वैदिकानामपि शब्दानामुपलक्षणम् । अत एव 'नैगमरूढिभव हि सुसाधु' इति वार्तिकम् । वैदिका रूढशब्दाश्चौणादिका इति भाष्यञ्च सङ्गच्छते । रूढाश्चैते उणादिप्रत्ययान्ताः अवयवाथै शून्या असन्तमप्यवयवार्थमाश्रित्य प्रायः कर्तरि व्युत्पाद्याः । उणादयो वत्यनुखका बहुलग्रहणस्य प्रयोजनमाह । केचिदविहिता अप्यूह्या इति ॥ तदेवाह । संज्ञास्वित्यादि ॥ भाष्यस्थोऽयं श्लोकः । डित्थो डिबित्थ इत्यादौ धातुरूपाणि प्रत्ययाश्च यथासम्भवमूह्याः । गुण निषेधादिकार्यवशात् अनूबन्ध विद्यात् । अनूबन्धमित्यत्र 'उपसर्गस्य घञ्यमनुष्ये' इति दीर्घः । एतत् उणादिषु शास्र शासितव्यम् । “कृवापाजि' इत्यादिसूत्राणि तु शाकटायनप्रणीतानि अयैव बहुलग्रहणस्य प्रपञ्च इत्यर्थः । भूतेऽपि दृश्यन्ते ॥ उणादय इति शेषः । वर्तमाना धिकारादिदं भूतग्रहणम् । दृशिः प्रयोगानुसारार्थः । इद सूत्रं बहुलग्रहणवत्प्रपञ्चार्थम् । भविष्यति गम्यादयः ॥ भविष्यति काले गम्यादयश्शब्दाः णिनिप्रत्ययान्ताः निपात्यन्ते इत्यर्थः । ग्रामङ्गमीति निपातनान्नात्र णित्वम् गमिष्यन्नित्यर्थः । प्रस्थायी प्रस्थास्यमान इत्यर्थः ।