पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७५९
स्वरप्रकरणम् ।

आचितम्। आस्थापितम् ॥ ३८८१ । प्रवृद्धादीना च (६-२-१४७) । एषां त्क्तान्तमुत्तरपद मन्तादात्तम् । प्रवृद्धः । प्रयुक्त । असज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ॥ । ३८८२ कारकाद्दत्तश्रुतयोरेवाशिषि (६-२-१४८) । संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकातू' किम् । सभूतो रामायण । “दत्तश्रुतयोः ' किम् । देवपालितः । अस्मान्नियमादत्र सज्ञायामन-' (सू ३८८०) इति न । “तृतीयाकर्मणि' (सू ३७८२) इति तु भवति । एव' क्रिम् । “कारकावधारण' यथा स्याद्दत्तश्रुतावधारण मा भूत् । अकारकादपि दत्तश्रुतः योरन्त उदात्तो भवति । संश्रत । 'आशिषि' किम् । देवैः खाता देवखाता । आशिष्ये वेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न । शङ्खविशेषस्य सज्ञेयम् । ‘तृतीया कर्मणि' (सू ३७८२) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥ ३८८३ । इत्थभूतन कृतमिति च (६-२-१४९) । इत्थभूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपद् मन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रा दुर्भाव एव । तेन प्रलपिताद्यपि कृत भवति । “तृतीया कर्मणि' (सू ३७८२) इत्यस्या पवादः । ३८८४ ।अनो भावकर्मवचनः (६-२-१५०) । कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपान सुखम् । राजभोजनाः शालय । “ अनः ’ किम् । हस्ता दायः । “भा-' इति किम । दन्तधावनम् । करणे ल्युट् । 'कारकात्' किम्। निदर्शनम् । ३८८५ । मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः (६-२-१५१) । कारकात्पराण्येता न्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवत्र्म । पाणिनिकृतिः । छन्दोव्याख्या नम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । “कारकात्' किम्। प्रभूतौ सङ्गतिम्' । अत्र “तादौ चानिति-' (सू ३७८४) इति स्वर ॥ ३८८६ । सप्तम्याः पुण्यम् (६-२-१५२) । अन्तोदात्तम् । अध्ययनपुण्यम् । “तत्पुरुषे तुल्यार्थ-' (सू ३७३६) इति प्राप्तम् । “सप्तम्या.' किम् । वेदन पुण्य वेदपुण्यम् ॥ ३८८७ । ऊनार्थकलह तृतीयायाः । (६-२-१५३) । माषेोनम् । माषविकलम् । वाकलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां प्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् चानुपसर्गम ॥ ३८८८ । मिश्र सन्धौ (६-२-१५४) । पणबन्धेनैकाथ्र्य संधिः । तिलमिश्राः । सर्पिर्मिश्राः । 'मिश्रम्’ किम् । गुडधानाः । “ अनुपसर्गम्’ किम् । तिलसमिश्रा । ‘मिश्रग्रहणे सोपसर्गग्रहणस्य’ इदमेव ज्ञापकम् । असधौ' किम् । ब्राह्मणमिश्रेो राजा । ब्राह्मणैः सह सहित ऐकाथ्र्यमापन्नः ॥ ३८८९ । नञ्जा गुण प्रतिषेधे सपाद्यर्हहितालमर्थास्तद्धिताः (६-२-१५५) । सपाद्याद्यर्थतद्धितान्तान्नओ गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्या सम्पादि कार्णवष्टकिकं, न कार्णवेष्टकिकमकार्णवेष्टाकिकम् छेदमर्हति छैदिक । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीय• । न सन्तापाय प्रभवति असन्तापिक । 'नअ.' किम् । गर्दभरथमर्हति गार्दभरथिकः । विगार्दभरथिकः । “गुणप्रतिषेधे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादितत्वाद्युच्यते तत्प्रतिषेधो यत्रोच्यते तत्राय विधि । कर्णवेवष्टकाभ्यां न संपादि मुखमिति । “सपादि-' इति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीय । ‘तद्धिताः किम् । वोढुमर्हति