पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७६०
सिद्धान्तकौमुद्याम्

वोढा । न वोढा अवोढा ॥ ३८९० । यतेोश्चातदर्थे (६-२-१५६) । ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशाना समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । “ अतदर्थे' किम् । अपाद्यम् । “तद्धित' किम् । अदेयम् । 'गुणप्रतिषेधे' किम् । दन्यादन्यददन्यम् । “तदनुबन्धग्रहण नातदनुबन्धकस्य इति नेह । अवामदेव्यम् ॥ ३८९१ । अच्कावशक्तौ (६-२-१५७) । अजन्त कान्तं च नः परमन्तोदात्तमशक्तौ गम्यायाम् । अपच' पक्तुमशक्तः । अविलिख ।' अशक्तौ' किम् अपचो दीक्षितः । गुणप्रतिषेध इत्येव । अन्योऽय पञ्चादपचः ॥ ३८९२ । आक्रोशे व (६-२-१५८) । नञ्जः परावच्कावन्तोदात्तावाक्रोशे । अपचो जाल्मः । पक्तुं न शक्कातालयव माक्रोश्यते । अविक्षिपः ।। ३८९३ । सज्ञायाम् (६-२-१५९) । नञ्जः परमन्तोदात्त सज्ञाया माक्रोशे । अदेवदत्त । ३८९४ । कृत्योकेकष्णुचार्वादयश्च (६-२-१६०) । नञ्जः परेऽन्तोदात्ता स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलकरिष्णुः । इष्णुजग्रहण खिष्णुचो द्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामथ्र्यात् । अनाढ्यभविष्णुः । चार्वादिः । अचारु । असाधुः । “ राजाहोश्छन्दसि' (गण १६१) । अराजा । अनह. । “भाषायाम्' नञ्ज स्वर एव ॥ ३८९५ । विभाषा तृन्नन्नतीक्ष्णशुचिषु (६-२-१६१) । तृन् अकर्ती । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि । पक्षेऽव्ययस्वरः ॥ ३८९६ । बहुव्रीहाविदमतत्तद्भद्यः प्रथमपूरणयोः क्रियागणने (६-२-१६२) । एभ्योऽनयोरन्त उदात्त । इद प्रथममस्य स इदप्रथम । एतद्दि तीयः । तत्पञ्जमः । 'बहुव्रीहौ' किम् । अनेन प्रथम इदप्रथम । 'तृतीया-' (सू ६९२) इति योगविभागात्समास । 'इदमेतत्तद्भयः’ किम् । यत्प्रथमः । ‘प्रथमपूरणयोः ' किम् । तानि बहून्यस्य तद्वहु । “क्रियागणने' किम् । अय प्रथमः प्रधान येपां त इदप्रथमाः । द्रव्यगणन मिदम् । “गणने' किम् । अय प्रथम एषा त इदप्रथमा । इदप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदप्रथमका । बहुत्रीहाविल्यधिकारो ‘वन समास' (सू ३९१२) इत्यतः प्राग्बोछद्यः ।। ३८९७ । सङ्खयायाः स्तनः (६-२-१६३) । बहुव्रीहावन्तोदात्त । द्विस्तना । चतुःस्तना । ‘सख्याया ' किम् । दर्शनीयस्तना । ‘स्तन' किम । द्विशिराः ॥ ३८९८ । विभाषा छन्दसि (६-२-१६४) । 'द्विस्तनां करोति' । ३८९९ । “सज्ञाया मित्ताजिनयी (६-२-१६५) । देवमित्तूः । कृष्णाजिनम । “सज्ञायाम्' किम् । प्रियमित्तू । 'ऋषिप्रतिषेधोऽत्र मित्रे' (वा ३८५७) । विश्वामित्तूर्षिः ॥ ३९०० । व्यवायिनोऽन्तरम् (६-२-१६६) । व्यवधानवाचकत्परमन्तरमन्तादात्तम् । वस्त्रमन्तर व्यवधायक यस्य स वस्त्रान्तर । “ व्यवा यिनः ’ किम् । आत्मान्तर । अन्यस्वभाव इत्यर्थः । ३९०१ । मुख स्वाङ्गम् (६-२-१६७) । गौरमुखः । “स्वाङ्गम्’ किम् । दीर्घमुखा शाला ॥ ३९०२ । नाव्ययदिक्छब्दगोमहत्स्थूल मुष्टिपृथुवत्सेभ्यः (६-२-१६८) । उचैर्मुख. । प्राङ्मुख । गोमुखः । महामुख. । स्थूलमुखः । मुष्टिमुखः । पृथुमुख । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणो ऽपि विकल्पोऽनेन बाध्यते ॥ ३९०३ । निष्ठोपमानादन्यतरस्याम् (६-२-१६९) । निष्ठान्ता दुपमानवाचिनश्च पर मुखं स्वाङ्गं वान्तोदात्त बहुव्रीहौ । प्रक्षालितमुख । पक्षे 'निष्ठोपसर्ग (सू ३८४४) इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति ।