पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आद्यान्महाकाशः महाकाशान्महावायुः महावायोर्महातेजः ।
महातेजसो महासलिलं महासलिलान्महापृथ्वी ।। ३० ।।

अवकाशः अच्छिद्रमस्पृशत्वं नीलवर्णत्वं
शब्दवत्वमिति पञ्चगुणो महाकाशः ।। ३१ ।।

सञ्चारः सञ्चालनं स्पर्शनं शोषणं धूम्रवर्णत्वमिति
पञ्चगुणो महावायुः ।। ३२ ।।

दाहकत्वं पाचकत्वमुष्णत्वं प्रकाशत्वं रक्तवर्णत्वमिति
पञ्चगुणं महातेजः ।। ३३ ।।

प्रवाहः आप्यायनं द्रवः रसः श्वेतवर्णत्वमिति
पञ्चगुणं महासलिलं ।। ३४ ।।

स्थूलता नानाकारता काठिन्यं गंधः पीतवर्णत्वमिति पञ्चगुणा
महापृथ्वी इति महासाकारपिण्डस्य पञ्चतत्त्वं
पञ्चविंशतिगुणाः ।। ३५ ।।

स​ एव शिवः शिवाद्भैरवो भैरवात् श्रीकण्ठः श्रीकण्ठा-
त्सदाशिवः स​दाशिवादीश्वरः ईश्वराद्रुद्रो रुद्राद्विष्णु-
र्विष्णोर्ब्रह्मा इति महासाकारपिण्डस्य मूर्त्यष्टकम् ।। ३६ ।।

तत्तद्ब्रह्मणः सकाशादवलोकनेन नरनारीरूपः प्रकृतिपिण्डः
समुत्पन्नस्तञ्च पञ्चपञ्चात्मकं शरीरमिति ।। ३७ ।।

अस्थि-मांस-त्वक्-नाडी-रोमाणि इति पञ्चगुणा भूमिः ।। ३८ ।।

लाला मूत्रं शुक्रं शोणितं स्वेद इति पञ्चगुणा आपः ।। ३९ ।।

क्षुधा तृषा निद्रा क्लान्ति आलस्यमिति पञ्चगुणं तेजः ।। ४० ।।

धावनं प्लवनं प्रसारणमाकुञ्चनं निरोधनमिति पञ्चगुणो वायुः ।। ४१ ।।

१३-पाच​कत्वम् (ह. का.). १४-अवनम् (त.), भ्रमणां (ह.).