सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
सात्वततन्त्रे-


अतो येन प्रकारेण तरन्ति प्राकृता अपि ।
अपराधान् कृतान्देव तन्ममाख्यातुमर्हसि ॥ ४२ ॥

श्रीशिव उवाच ॥

प्रदक्षिणशतं कृत्वा दण्डवत्प्रणमेद्भुवि ।
अपराधशतं तस्य क्षमते स्वस्य केशवः ॥ ४३ ॥
प्रदक्षिणं सकृत्कृत्वा यो न जानुशिरं नमेत् ।
निष्फलं तद्भवेत्तस्य तस्मात्प्रत्येक शो नमेत् ॥ ४४ ॥
जगन्नाथेति ते नाम व्याहरिष्यन्ति ते यदि ।
अपराधशतं तेषां क्षमते नात्र संशयः ॥ ४५ ॥
नाम्नोऽपराधास्तरति नाम्न एव सदा जपात् ।
विना भक्तापराधेन तत्प्रसादविवर्जितः ॥ ४६॥
सर्वापराधांस्तरति विष्णुपादाम्बुजाश्रयः ।
विष्णोरप्यपराधान्यै नामसङ्कीर्तनात्तरेत् ॥ ४७ ॥
विष्णुभक्तापराधानां नैवास्त्यन्या प्रतिक्रिया ।

श्रीनारद उवाच ॥

भक्तापराधान् मे ब्रूहि यथा तेषां प्रतिक्रिया ।
अनुग्रहाय लोकानां भगवन्ममचापि हि ॥४८॥

श्रीशिव उवाच॥

विष्णुभक्तस्य सर्वस्वहरणं द्विजसत्तम ।
भर्त्सनं चोत्तमे भक्ते स्वमे चापि प्रहारणम् ॥ ४९ ॥
एतेऽपराधा भक्तानां शृण्वेषां प्रतिक्रिया ।
तद्धनं द्विगुणं दत्वा कृत्वा पादाभिवन्दनम् ॥ ५० ॥
कथयेन्मे क्षमस्वेति तद्दोषं धनकर्षणम् ।
यावत्तद्भर्त्सनं कृत्वा तावन्मासान्समाहितः ॥५१॥
निर्मत्सरः परिचरेत्तत्प्रसादेन शुद्ध्यति ।
यावज्जीवं प्रहारे तु परिचर्येदतन्द्रितः ॥५२॥