सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
शास्त्रविषयजिज्ञासाऽवतरणिक ।



 अक्षरार्थस्तु-तस्मात् ( आनुश्रविकाद् दुःखपघा- तकाद् हेतोः ) विपरीतः [ सर्वपुरुषान्यताप्रत्ययः सा क्षान्करो ] दुःखापघातको हेतुः, अत एव श्रेयान् । आ- नुश्रविको हि हे वेदविहितत्वाद् मात्रया । दुःखपघात- कवच प्रशस्यः । सत्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यह् । तदनयोः प्रशस्वयोर्मध्यं सर्वपुरुषान्यताप्रत्ययः श्रेयान् ।


 कुतः पुनरस्योत्पत्तिरित्यत आह—‘व्यक्ताव्यक्त- ज्ञविज्ञानात् ” इति । व्यक्तञ्च अव्यक्तश्च ज्ञश्च व्यक्ता- यक्तज्ञाः , तेषां विज्ञानम् विवेकेन ज्ञानम्, व्यक्ता- व्यक्तज्ञविज्ञानम् । यक्तज्ञानपूर्वकमव्यक्तस्य तत्कार- णस्य ज्ञानम्, तयोश्च पारार्थ्येनात्मा परो ज्ञायते, इति ज्ञानक्रमेणाभिधानम् । एतदुक्तं भवति-श्रुतिस्मृ-




रत्वं दर्शयति अक्षरार्थस्त्विति । एतेनापकृष्टस्यापि तद्विपरी- तस्यासंभवेन ‘अत एव श्रेयान्’ इतिकथनासङ्गतिरिति परास्तम् । अत एव-ऐकान्तात्यन्तिकदुःखापघातकहेतुस्वादेव । मात्रयेति।। सस्वपुरुषान्यताख्यातिरूपप्ताधनस्य प्रशस्यतरत्वलाभाय मा- त्रापदोपादानम् । अल्पकालावच्छिन्नमानसातिरिक्तदुःखापघात- कत्वादिति समुदायार्थः । श्रेयान् -प्रशस्यतरः । त- योः-व्यक्ताव्यक्तयोः । पारार्थ्येयेन–पुरुषभोगापवर्गहेतुत्वेन । ननु सत्वपुरुष।न्यताख्यातिरूपहेतोः सवपुरुषज्ञानाधीनत्वाद्व्य- क्तज्ञानाधीनत्वाभिधानं व्यर्थमित्यत आह-इर्तिज्ञानक्रमेणेति । तथाच यतो व्पक्तज्ञानं विनऽव्क्तज्ञानं न संभवते तदुभयज्ञानं विना । पुरुषविज्ञानम्, अतस्तथाऽभिधानमिति भावः । ननु श्रुत्यादिभिरेव व्यक्तादिज्ञानेन सत्त्वपुरु- षान्यताख्यातेः संभवेन मननात्मकमिदं शास्त्रं व्यर्थ- मित्याशङ्कानिरासार्थमाह एतदुक्तमिति । तथा च विपरी-