सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
सटीकसाङख्यतत्वकौमुद्याम् ।



 ननु ‘इन्द्रस्वं यमस्त्वं वरुणः’ इत्यादिभिर्यथा काश्चित्स्तूयते महार्ह एवमेव यज्ञादिशब्दैर्न स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हं हीनत्वात्किन्तु ज्ञनं मोक्षसाधनत्वाद्यज्ञादिभिः स्तूयते तच्च ब्रह्म- चर्यपदेन लक्षणीयमिति चेन्न । स्त्र्यादिविषयासक्तस्य सर्वदा तद्भानेन दृढतरतत्संस्कारवतो ज्ञानानुत्पत्तौ पुनःसंसारपत्तेस्तस्य हीनत्वाभावात् ।


 स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
 संकल्पो निश्चयश्चापि वधूनां रातिहेतवः ॥

 इत्युक्तहेतूनां त्यागरूपस्य ब्रह्मचर्यस्य कर्तुमशक्यस्वेन महत्वाच्च }


 नीरोगः कान्तिसंपन्नः सर्वदुःखविवर्जनः ।
 ब्रह्मचारी भवेल्लोके पाप्मना च विवर्जितः ।


 इत्याद्यौहिकफलदर्शनेन तस्य महत्वानुमानाच । तद्विनात्मज्ञा- नानुत्पादक "परांचि खानि । व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्" " ध्यायतो विषयान्पुंसः" इत्यादिश्रुतिस्मृतिभ्यो महवावगमाञ्च ॥

 नन्वेवमपेि ब्रह्मचर्यस्य । यज्ञादिभिरारोपितगुणवत्वरूपस्तुति- त्वात्तेषामेव ब्रह्मलोकसाधनत्वं गुणस्य वास्तववङ्गकरे तेषामपि तत्प्राप्तं तत्र नेष्टम् । "अथ य इमें ग्राम इष्टापूर्तेदत्तमित्युपासते ते धूममभि संभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षात् षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोके पितृलोका- दाकाशमाकाशचन्द्रमसमेष सोमो राजा’इति (छां० अ० ५ खं० १० मं ३-४) चन्द्रमसाभेदप्राप्तिबोधकश्रुतिविरोधापत्तेः । उभयविधाने वाक्यभेदपत्तेश्च । द्वितीयपक्षे तुल्यफलस्वापत्तिः । तेषां ब्रह्मलोकसाधनत्वानङ्गीकारे ब्रह्मचर्यस्तुत्यनुपपत्तिः । आरोप्यमाणगुणा-