यन्मानवायुष्यं ब्रह्मलोकमभि सम्पद्यते नच पुनरावर्तते" इतिछान्दोग्यश्रुतेः । “तेषां न पुनरावृत्तिः” इत्यनभ्यस्तान- वृत्यापदकबृहदारण्यश्रुतेश्च ॥
यद्यपि ‘असकृन्नित्यनिरतिशयश्रुतेः’ इत्येव युक्तं तथाऽपि ‘‘वेत्थ- यथा लोको न सम्पूयेता३" इति "तस्मिन् यावत्सम्पातमुषित्वाऽथैत- मेघाध्वानं पुनर्निवर्त्तन्ते तेनासौ लोको न सम्पूर्यते” इतिप्रश्ननिरूप- णाभ्यां पितृयानेन पथा गतानां पुनरावृत्तिरिव देवयानेन पर- था गतानां पुनरावृत्तिर्न कुत इत्याशङ्कानिरासाय श्रुत्या तथा- बिधानौचित्येऽत्रापि तथाविधानमेवोचितमिति । नचैवमपि तच्छुतिरेवोपन्यसितुं युक्तेति वाच्यम् । उक्तार्थे तापर्यंग्राहकाभ्या- सलाभाय तथाऽभिधानात् । अन्यथा तस्या उपासनार्थवादत्वापत्तेः।
नन्वपुनरावृत्तिश्रवणेऽपि फलस्य नित्यनिरतिशयत्वं न स- भवति-तथाहि-"य ए्षोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म" इति चतुर्थे उपकोशलविद्ययामेष आ- त्मा प्राणानां तदेवोक्तब्रह्मेत्युपासकानां ब्रह्मलोकगतिः “एष देवपथः" इत्यनेनक्ता, अग्रे अष्टमाध्याये ब्रह्मज्ञानसहकरिणः परमसाधनस्य ब्रह्मचर्यस्य विधानायर्थवादे ब्रह्मलोकस्वरूपमुक्तं तद्यथा--
"अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता ते विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्टात्मनामनुविन्दते ॥१॥ अथ यत्सन्त्रायणमित्याक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येत्र सत आमनस्त्राणां विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवात्मनामनुविद्य मनुते ॥ २॥ अथ यदनाशकयनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्म न नश्यति यं ॥ ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव त- त्तदरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामिततो दिवि तदैरं मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता ब्रह्मणः प्रभृविमित-