पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५
शस्त्रविषयजिज्ञसाऽवतरणि



वाक्य भेदप्रसङ्गात् । न चानर्थहेतुत्वक्रतूपकारकत्वया कश्चिद्विरोधोऽस्ति । हिंसा हैिं पुरुषस्य दोषमा- वक्ष्यतेि, क्रतोश्चोपकरिष्यतीति ।


 नच “अहिंसन् सर्व भूतान्यन्यत्र तीर्थेभ्य" इति श्रत्याशिमा- नुज्ञाविषयतीर्थान्यविषयकहिंसाय अनिष्टसाधनत्वबोधिकयो तुल्य- वित्तिवेद्यतया शास्त्रानुज्ञविषयाहिंसया अनिष्टसाधनत्वाभावं बोध- यन्त्या विरोध इति वाच्यम् । स खल्वेवं वर्तयन् यावदायुष्यं ब्रह्मलोकमभिसंपद्यते नच पुनरावर्त्तते इयग्रिमतेनैकवाक्यतया वैधहिंसातिरिक्त हिंसानिवृत्तेरिष्टसाधनत्वे तापर्यावधारणादुभयत्र तात्पर्यकल्पने गौरवात्प्रमाणाभावाञ्च ।

 अत एव “जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महा- व्रतम्” इति (यो० सू० ३ सा० पा० ) योगसूत्रमषि संगच्छते, अन्यथा महाव्रतपदवैयर्थ्यापत्तेरिति ।

आवक्ष्यतेि प्रापयिष्यति ।

 अत्रेदमवधेयम्-"न हिंस्यात्सव भूतानि' ’ इत्यत्र सर्वभूत- पदोपादानत् हिंसामात्रस्यानिष्टसाधनत्वं तत्र प्रत्याय्यते । ननु विधेयवद् निषेध्याया हिंसायाः किंचिदुद्देश्यकत्वमपि केनाचित्- प्रत्याय्यते, अन्यथाऽज्ञानप्रमादकृते उद्देश्ययत्वभावेन दोष- भावप्रसङ्गात् । तदेवं हिंसास्वव्याप्याग्नीषोमीयपशुहिंसास्वाव- च्छिन्नहिंसाबोधकविधिहिंसामात्रनिषेधयोः सामान्यविशेषभावसं- भवेन विशेषविधिना सामान्यनिषेधयोः संकोचोऽवश्यं सम्भवति । नच निषेध्याहिंसाया अनुद्देश्यकत्वेऽपि कस्येयमनिष्टज़निकेति संशयनिवर्तकेन ‘शास्रफलं प्रयोक्तरि"इति न्यायेन कत्रर्थत्वं प्रत्याययते । एवं सति अग्निषोमीयपशुहिंसात्वस्य कर्त्र्रर्थत्वावछिन्नहिंसात्वव्याप्यत्वाभावान्न सामान्यविशेषभवः स- म्भवतीति वाच्यम् । कत्वर्थाऽपि हिंसा पुरुषेणैव कर्त्तव्याऽतो-