सङ्ग इत्यत उक्तम्--"केवलम्" इति---विपर्ययेणास-
भिन्नम् । यद्यप्यनादिर्विपर्ययवसाना तथा ऽपि तत्व
ज्ञानवासना तत्वविषयसाक्षात्कारमादधत्याऽऽदिम-
त्याऽपि शक्या समुच्छेतुम् । तत्त्वपक्षपातो हि धियां
स्वभाव', यदाहुर्बह्या अपि-
निरुपद्रवभूताथस्वभावस्य विपर्ययैः ।
न बाधो ऽयत्नवत्वे ऽपि बुद्धेस्तत्पक्षपाततः” ॥
इति । ज्ञानम्वरूपमुक्तम् -“नास्मि, न मे, नाहम्” इति ।
दित्यभिप्रायेण समाधते । केवलमितीति ।
ननु विषयेयेणासंभिन्नत्वं विपर्ययभिन्नत्वं तच्च विशुद्वामित्य- नेनैव लब्धमिति चेन्न । विपर्ययपदस्योभयत्रान्वयेन स्वसमानका- लीनस्वसमानाधिकरणविपर्ययवासनाऽसंयुक्तलाभात् ।
चन्द्रकारास्तु केवल पुरुषमात्रगोचरं ज्ञानमित्याहुः ।
आदिमत्था श्रवणमनादिजन्यया इत्यर्थः । ज्ञानानां ज्ञान- त्वविशेषेऽधि स्वभावः शरणमित्यत्रातिदार्ढ्यांय विरोधिनां बौद्धानां सम्मतिमाह । यथेति । उपद्रवः । प्रवृत्तिज्ञानानि, तैः शुन्यो यो भूतार्थः । आलयविज्ञानरूपं स्वभाव यस्य । विपर्ययैः प्रवृत्तिविज्ञानैः, विज्ञानरूपतायाः। न बाधः अयत्न वत्त्वेऽपि तन्वज्ञानस्यानादृत्तावपि । 'न बाधः स्यान्नव त्वेऽपीति' पाठे निर्दोषनिरात्मतत्वज्ञानस्य सादित्वेऽप्यनादिमि- थ्याज्ञानैर्न बाध इत्यर्थः ॥
| युक्तिमप्याह । बुद्धेरिति । यद्विशेष्यकयत्सम्बन्धावच्छिन्न- यत्प्रकारकशाब्दबुद्धिं प्रति यादृशसमाभिव्याहारज्ञानं कारणं तद्वि- शेष्यकतत्सम्बन्धावच्छिन्नप्रतियोगिताकतदभावप्रकारकविशेषणता- संसर्गकशाब्दबुद्धिं प्रति तादृशसमभिव्याहृतनञ्समभिव्याहारज्ञा- नस्य हेतुत्वमित्यभिप्रायेण नास्तीत्यनेनामानि क्रियामात्र निषि-