ह्यवाप्तसकलेप्सितस्य भगवतो जगत् सृजतः किमप्य- भिलषितम्भवति । नापि कारुण्यादस्य सर्गे प्रवृत्तिः, प्राकू सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखा- भावेन कस्य प्रहाणेच्छा कारुण्यम् ? सर्गोत्तरकालं दुः- खिनो ऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्र यत्वं दूषणमु,-कारुण्येन सृष्टिः सृष्टया च कारुण्यमिति । अपि च करुणया प्रेरित ईश्वरः सुखिन एव जन्तुन् सृ- जन्न विचित्रान् । कर्मवैचित्र्याद्वैचित्र्यम् इति चेत् ? कृ- तमस्य प्रक्षावतः कमधिष्ठानेन, तदनधिष्ठानमात्रादेवा- चेतनस्यापि कर्मणः प्रवृत्त्युपपत्तेस्ततकार्यशरीरन्द्रिय विषयानुत्पत्तौ दुःखानुत्पत्तेरपि सुकरत्वात् ॥
प्रकृतेस्त्वचेतनायाः प्रवृत्तर्न स्वार्थानुग्रहो न वा का-
तीत्युक्त्या च कारुण्यव्यावृत्तिरुक्तेति ध्येयम् । कारुण्यव्यतिरेकमाह । नापीति । कारुण्यं च निरुपधिपरदुःखप्रहाणेच्छा करुणा तस्या भावः कारुण्यम् । तदधीनप्रवृत्तिर्न सम्भवति । तत्र हेतुमाह । प्रा- गिति । सर्योत्तर कालीनदुःखमादाय कारुण्यं स्यात्तत्राह । स- गत्तरेति । इतरेतराश्रयत्वं विवृणोति । कारुण्येनेति । ‘प्रक्षा- लनाद्धि पेकस्य दुरादस्पर्शनं वर’ मिति न्यायेन दुःखमूलत्वात्सृष्टिरेव ने स्यात्स्याञ्चेत्सुखैकरूपैव स्यादन्यथा वैषम्यापत्तेरित्याह । अपि चेति । पूर्ववादी शंकते। कर्मवैचित्र्यादिति । कर्मसापेक्ष त्वे तेनैव निर्वाहे कारुण्यस्य वैयर्थ्यापत्तिः । अचेतनस्य कर्मणस्त- दनधिष्ठानादेव प्रवृत्त्यनुपपत्तेस्तत्कार्यशरीराद्यभावेन दुःखानुत्पत्तेः कुतः कारुण्यं चेत्यभिप्रायेण सिद्धान्ती परिहरति । कृतमस्येति । प्रकृतिप्रवृत्तौ च प्रेक्षावत्प्रवृत्तित्वाभावेन स्वार्थकारुण्यानपेक्षत्वा- न्न कोऽपि दोष इत्याह । प्रकृतेस्त्विति । प्रयोजनमनुद्दिश्ये-