सामग्री पर जाएँ

पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७७
अन्यथाख्यातेर्निरासः ।


मानस्याप्यसम्भवात् । लिङ्गाद्युपलम्भभावेऽपि जायमानत्वात् ।

 मथुरानाथभट्टाचार्यस्तु । . ज्ञानं रजतन्वाभाववद्विशेष्यकत्वा वच्छिन्नरजवत्वप्रकारिताकं न वेति विप्रनिपत्तिविधिकोटिर्नैया- यिकानाम् । पक्षतावच्छेदकसमानाधिकरण्येन तत्सिद्धेरुद्देश्यत्वा- द्रजतत्वभ्रमान्यज्ञानमात्रे नांशतो वाधः । निषेधकोटिस्तु इदं रज- तमित्यादिभ्रमस्थले इदंत्वप्रकारकशुक्त्यनुभवरजतस्मरणात्मकज्ञानद्व- याङ्गीकर्तृगुरूणाम् । पक्षतावच्छेदकावच्छेदेन तत्सिद्धेरुदेश्यतया न रजतत्वभ्रमान्यज्ञानमार्त्रेऽशतः सिद्धसाधनम् । न च रजतत्वा- भाववाद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वस्य तन्मते इच्छायामेव प्र- सिद्धतया ज्ञाने तदभावस्य साधने नैयायिकानां सिद्धसाधनमि- ति वाच्यम् । न्यायनये ज्ञानेच्छादि भेदेन प्रकार ताविशेष्यतया“दाभावात्सिद्धसाधनासम्भवात् । तद्भदे प्रकार ताविशेष्यतात्वयोः सर्वसाधारणानुगतधर्मयोः सत्त्वेन सामान्या- भावस्य साध्यतया सिद्धसाधनासम्भवाञ्चेत्याहुस्तन्न । ईतोरनुप- न्यासेन न्युनत्वात् । समानविशेष्यकतयेत्यादिहेतोः पूर्वं निर: स्तत्वाञ्च ।

 यदपि ज्ञानवृत्तिरजतत्वप्रकारकत्वं ज्ञानवृत्तिरजतत्वाभाव वद्विशेष्यकत्वावच्छिन्नं न वा ज्ञानवृत्तिरजतत्वाभाववाद्वशेष्यकत्वं ज्ञानवृत्तिरजतत्वप्रकारकत्वावच्छिन्नं न वेति विप्रतिपत्तिः । ज्ञानवृत्तिरजतत्वप्रकारकत्वं रजतप्रमायामेव प्रसिद्धं तदवच्छिन्नत्वं च रजतत्वाभावप्रमावृत्ति रजतत्वाभावप्रकारकत्वे एवं प्रसिद्धमिति ज्ञानेच्छादिभेदेन प्रकारताविशेष्यतयोर्भैदऽपि सर्वसाधारणानुगतप्रकारतात्वविशेष्यतात्वयोरभावेऽपि च न क्षतिरिति सङ्क्षेप इति । -  तन्न । अत्रापि हतोरनुपन्यासेन न्यूनत्वात् ।