दस्य विशेपपरत्वे युक्त्यभावाच ।
एतेन-यद्यपि बुद्धिसुखदुःखान्यपि मनसो विषयास्तथापि तस्यैव विषयत्वेन दुःखत्वोपचारो यद् विषयीक्रियमाणं दुःखं जनयति । तथाच एकैकेन्द्रियग्राह्यत्वे सति ज्ञायमानत्वेन दुःखसाधनत्वं विषयत्वमित्युक्ते बुद्ध्यादेर्विषयत्वनिरासः-इति परास्तम् । जायादेर्नाशासत्त्वेऽपि तन्नाशज्ञानाज् जायारूपादेर्दुःखोत्पत्त्या ज्ञायमानत्वेन हेतुत्वाभावाञ्च ।
एतेन-बुद्धिसुखदुःखानि न मनसो विषयः ज्ञायमानत्वेन दुः
खाजनकत्वात् किन्तु इच्छाद्वेषप्रयत्ना एव, ज्ञायमानत्वेन
दुःखजनकत्वात्-इति परास्तम् ।
न चैकैकेन्द्रियग्राह्यत्वे सति यद्विषयकज्ञानं दुःखजनकं तत्त्वं विषयत्वम्, बुद्धिसुखदुःखानि तु न तादृशानीति वाच्यम् । वि षयपदस्य विशेषपरत्वे युक्तयभावरूपदोषानिवृत्तेः । ‘कमणेव हि संसिद्विमास्थिता जनकादयः'इत्यादिवाक्यजन्या साक्षान्मोक्षजनके कर्मणि साक्षान्मोक्षजनकत्वबुद्धिरिति ज्ञात्वा जातिस्मरो दुःखायते मोक्षालाभात्, शत्रौ मित्रबुद्धिजतेति ज्ञात्वा यथाऽन्य इति । शत्रुपुत्रगतयोः सुखदुःखयोर्ज्ञायमानयोर्दुःखजनकत्वेन च बुद्ध्यादेरपि मनोविषयत्वस्य दुर्वारत्वाञ्च ।
नच सर्वत्र बुद्ध्यादेर्न तथात्वमिति वाच्यम् । पिपासादेः कचित्स्वरूपसत्तया ते हेतुतया सर्वत्रातथात्वात् । नचोक्तभ्र- मादिस्थले बुद्ध्यादिज्ञानेऽपि कर्मसत्त्वादिज्ञानस्यावश्यकत्वात्तस्यैव दुःखहेतुत्वं न तु बुद्ध्यादिज्ञानस्येति वाच्यम् । केवलकर्मादिज्ञा- नसत्त्वेऽपि दुःखानुत्पत्त्या तथा वक्तुमशक्यत्वात् । शत्रुमित्रस्गत- सुखदुःखयोर्मनोविषयत्वापत्त्यदुद्धाराज्न्च ।
यत्तु रागद्वेषमोहप्रवृत्तिधर्माधर्माणां दुःखहेतुत्वेऽपि तत्परित्यागे बीजं शरीरादिव्यतिरेकेणात्मलाभाभावो दुःखं प्रति-