पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७३
आख्यातेर्निरूपणम् ।


वच्छेदेन परामर्शस्य हेतुनया गन्धप्रागभावकालावच्छिन्न घटो गन्धवान्पृथिवीत्वादित्यादौ पक्षनावच्छेदकगन्धप्रागभावकाला- धच्छेदेन गन्धानुमितेर्भ्रमरूपविशिष्टज्ञानत्वं दुर्वारमिंति वाच्यम् । तादृशानुमि्तौ तादृशापरामर्शस्यतिरिक्तजनकत्वकल्पनेन तादृशा- नुमितिं प्रति तादृशानुमित्माविरहविशिष्टप्रत्यक्षेच्छाविशिष्टप्रत्यक्ष- सामग्र्यादीनां प्रतिवन्धकत्वकल्पनेन च महागौरवाभियाऽतिप्रस- ङ्गभङ्गाय व्यापकताघटकसम्वन्धेनैव व्यापकस्यानुमितौ मानमिति नियमांगीकारेण चोपाध्यायादिभिस्तादृशानुमितेरनङ्गीकारत् ।

 न च द्रव्यं गन्धवत्पृथिवीत्वादित्यादिभागासिद्धेः पक्षता- च्छेदकसामानाधिकरण्येन हेत्वभाववत्ता ज्ञानरूपतया अदच्छेदका- वच्छेदेन हेतुमताज्ञानरूपानुमितिकारणविघटकतया तस्याः प-. क्षतावच्छेदकावच्छेदेनानुमित्यङ्गीकर्तनये हेत्वाभासविधया तस्य- दुषणत्वसम्भवेऽपि त्वन्नये सामानाधिकरण्येन हेतुमचाज्ञानस्यानु- मितिकारणत्वेन तत्प्रतिबन्धकत्वाभावाद् दूषणत्वानुपपत्तिरिति वा- च्यम् । सामानाधिकरण्येनानुमितिं प्रति पक्षतावच्छेदकावच्छेदेन इतुमत्तापरामर्शस्य हेतुतया तद्विघटकतयैव तस्या हेत्वाभासविधयै- व दुषणत्वसम्भवात् ।

 न चोत्पत्तिकालीन घटो गन्धव्याप्यपृथिवीत्ववानित्या- कारकादपि परामर्शात्पक्षतावच्छेदकसामानाधिकरणथमात्रावगाह्यनु- मितिस्वीकारे पक्षतावच्छेदकसामानाधिकरण्यमात्रावगाहिसि- द्धिदशायामनुमितिर्जायतां · वह्न्यनुमितिर्जायताभित्याद्यननुगतानु- मित्सासत्त्वे तादृशानुमितिनिर्वहाय तादृशेच्छाव्यक्तीनां सिद्धा- वुत्तेजकतां विनैव तथाविधानुमितेरुत्पत्तिनिवहाल्लाघवमिति वा- च्यम् । अवच्छेदकावच्छेदेनानुमित्यङ्गीकारे तादृशसिद्धेः प्रति- बन्धकत्वकल्पनेन भिन्नविषयप्रत्यक्षादिवारणायावच्छेदकावच्छे- देन सिद्ध्यभावबाधनिश्चयाभावघटिताया विलक्षणानुमितिसाम-



  ६०