रोवर्तिरजतत्वविशिष्टाभेदविषयकत्वात् । न तु पुरोवार्त्तिनि रजत- संसर्गविषयकत्वम् । रजतमिति स्मृत्युपसर्जनस्य तस्यारोपास- म्भवात् । अन्यथा संसर्गाभावधीनियामकप्रतियोग्यारोपसमये प्र- तियोगितावच्छेदकरूपतादात्म्यस्यापि प्रतियोगिविशेषणतयोप- स्थितत्वेनान्योन्याभावधीप्रसंगात् । घटत्वाद्यभावधीप्रसंगाञ्च । स्वतन्त्र पस्थितरजतारोपसामग्र्यां सत्यामुपसर्जनस्यैवारोप इति नियन्तुमशक्यत्वाञ्च ।
न चान्यत्र विद्यमानस्यान्यत्र ख्यातिरित्यन्यथाख्यातिश- ब्दस्य रूढिरिति वाच्यम् । ज्ञानप्रत्यासत्तेदूषितत्वेन तथा भानास- म्भवात् । सम्भवेऽपि झानस्य स्वविषयप्रवर्तकत्वानियमेनान्यत्रैव प्रवृत्यापत्तेः । रजतज्ञानाविषयरजतस्यान्यत्रैव सत्त्वात् ।
न च शुक्तिरेव तद्विषयेति वाच्यम् । अन्याकारज्ञानस्यान्या- वलम्बनत्वे संविद्विरोधापत्तेः । उभयविषयकत्वांगीकारेऽपि रज- तार्थिनः शुक्तौ प्रवृत्यसम्भवात् ।।
न चेष्टतावच्छेदकप्रकारतानिरूपितविशेष्यतासम्बन्धेन ज्ञान- स्य विशेष्यतासम्बन्धेन प्रवृत्तिं प्रति हेतुत्वांगीकारे क्षतिविरह इति वाच्यम् । भ्रमादिस्थले तादृशज्ञानस्यानुपदमेव निरस्तत्वात् । न च विमतामह निषिध्यमानं देशान्तरे सदिह निषिध्यमा नत्वात् । यद्यत्र निषिध्यते तत्तदन्यत्र सद्यथा भूतले निषिध्यमानं घटादिकम् , तथा चेदम् , तस्मात्तथेति वाच्यम् । अप्रयोजकत्वात् । विपक्षे बाधकतर्काभावात् । न च हेतुभंग एवं बाधकस्तर्कः । तस्य प्राप्तिमात्रापेक्षत्वेनान्यत्र सत्त्वानपेक्षणात् । इह चोत्पन्नस्य घटस्ये- हैव च निषिध्यमानस्यान्यत्र सवै नास्तीति तेन व्यभिचारात् ।
न च देशान्तर इत्यनुक्त्ता कृचिदितिपदेन साध्यनिर्देशः का यैस्तथा च तस्यापि तद्देशे सवाक्वचित्सदिति साध्यमस्तीति वा- च्यम् । असद्वैशिष्ट्यभानस्यानुपदमुपपादितत्वेन तेनैव व्य-