पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

द्विरस्वभावस्य गगनादेरप्यसवापत्तेः । गगनादेवृत्तिमत्वाभा- वेन सर्वदेशीयत्वासम्भवाच्च ।।

 यत्तु भवानन्दभट्टाचार्याः असद्वैशिष्टयस्य सदुपरागेणापि भाननिरासादित्यर्थः । न च प्रतियोग्यप्रासद्धिः । शुक्तिविशेषत्वा- वच्छिन्नरजतत्वपकारत्वस्य रजतत्वप्रकारतासामान्यस्य वा यत्किं- चित्पमात्वघटकपकारतानियामकसम्बन्धनिरूपितत्वनियमबलेनार्थ- तस्तन्निरासात् । असद्वैशिष्ट्यभाने तु रजतत्वातंयोगिकशुक्त्यनु- योगिक वैशिष्टयस्य किंचित्प्रमात्वघटकप्रकारत्वानियामकतया शु- क्त्तौ रजतत्वप्रकारतायां तादृशसम्बन्धनिरूपितत्वाभावेन तादृश- नियमभंगादियाहुः ।

 तदपरे न क्षमन्ते । तथा हि । असद्वैशिष्टयभानमते शुक्तिवि- शेष्यत्वावच्छिन्नरजतत्वस्य यत्किंचित्पप्रमात्वघटकप्रकारतानियामक- सम्बन्धनिरूपितत्वाप्रसिद्ध्योभयमतसिद्धनियमाभावेनार्थतस्तन्निरा- सासंभवात् । अन्यथाख्यातिमतेऽपि उक्तप्रमात्वघटकप्रकारतानि- रूपितसम्बन्धस्य रजतानुयोगिकरजतत्वप्रयोगिक समवायरूपस्यो- क्तप्रकारतानिरूपकत्वाभावेनोक्तनियमासम्भवात् । रजतानुयोगि- कसंसर्गस्य भानगीकारे तु तद्भानस्यान्यथाख्यातित्वापत्या र- जतत्वप्रकारकत्ववत्तत्संसर्गप्रकारकत्वापत्तेः । तदुक्तमसत्ख्यातिवा- दिभिः-

 अन्यथाख्यातिवादिमतेऽपि विभ्रमे पुरोवर्त्तिसंसर्गस्य शुन्यतयाऽनवभासापत्तेः शून्यसम्बन्धस्य भानांगीकारे अर्द्धजर- तीयदोषवारणाय सम्बन्धिनोरसतोर्भानावश्यकत्वेऽस्मदीयज्ञया- पत्तेः । सम्बन्धेऽप्यन्यथाख्यात्यंगीकारे रजतत्वादिवत्प्रकारत्वा- पत्याऽनवस्थापत्तेः । इदं रजतमित्यत्र पुरोवर्त्तिशुक्त्यादिनिरूपितर: जतत्वसंसर्गस्यैव भानानुभवाच्च ।

 एतेनेन्दत्वविशिष्टधर्मिनिरूपित रजतभेदो रजतत्वसमवायो