पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।


चेतनसम्बन्धिनो भवन्तीत्यत आह-“पुरुष” इति । पुरि लिङ्गे शेते इति पुरुष लिङ्गं च तत्सम्बन्धीति चेतनोऽपि तत्सम्बन्धी भवतीत्यर्थः ॥

 कुन: पुनर्लिङ्गसम्बन्धि दुःखम्पुरुषस्य चेतनस्येत्यत आह-“लिङ्गस्याऽऽविनिवृत्तेः"-पुरुषान्नेदाग्रहाल्लिङ्गधर्मा- नात्मन्यध्यवस्यति पुरुषः । अथ वा दुःखप्राप्ताववधिराङा कथ्यते लिङ्गम् यावन्न निवर्तते तावदिति ॥ ५५ ॥

दिदृष्टान्तेन समाधत्ते । पुरीति ।।

 ननु बुद्धिगतस्वप्रतिविम्बेन स्वगतबुद्धिधर्मप्रतिबिम्बग्रहणेS पि न सन्तप्येत । दृष्टं हि लोकेऽपि स्वकीयस्फटिकादावन्यदीयध- र्मारोपज्ञाने सन्तापाभाव इत्याशयेन पुनः शकते । कुतः पुन- रिति । अन्यधर्मप्रतिबिम्बत्वेन ज्ञानाभावात्सन्तापः सम्भवती- त्याशयेन समाधत्ते । पुरुषाद्भेदाग्रहादिति । तथा च लिङ्गस्य पुरुषाभेदाग्रहादित्यर्थः ।।

 यद्वा सान्निध्यस्य मुक्तपुरुषसाधारणत्वात्कथं बन्धहेतुत्वमि- त्यभिप्रायेण पुनः शंकते । कुतः पुनरिति । अविवेकप्रयोज्य: सान्निध्यस्य बन्धप्रयोजकत्वान्नोक्तदोष इत्याभिप्रायेण समाधत्ते । पुरुषादिति ।

 नन्वेवं भेदाग्रहो नामाविवेकः स च विवेकपागभावो विवेका- ख्यस्य ज्ञानस्य वासना वा स विषयतासम्बन्धेन पुरुषधर्मोऽन्यधर्मा- ध्यासे हेतुरिति पर्यवसाने अन्यथाख्यात्यापत्तिः । न चेष्टापात्तिः ।


 "आत्मख्यातिरसत्यातिरन्यथाख्यातिरेव च ।
 तथाऽनिर्वचनख्यातिरख्यातिः ख्यातिपचक"।


मिति ख्याति पंचकेषु आद्यचतुर्णां निरासात् । तथा हि क्षणिकविज्ञानस्यात्मनस्त- दाकाररजतादेर्बाह्यत्वेन ख्यातिरात्मख्यातिः । अत एव नेदं रज-