पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

भिनविशन्ते । अत एव पञ्चपर्वाऽविद्येत्याह भगवान् वार्षगण्यः ॥ ४७ ॥

 सम्प्रति पञ्चानां विपर्ययभेदानामथान्तरभेदमाह-


 भेदस्तमसो ऽष्टविधो मोहस्य च, दशावधो महामोहः ।
 तामिस्रोऽष्टादशधा, तथा भवत्यन्धतामिस्रः ॥ ४८ ॥


 भेदः” इति । भेदस्तमसो ऽविद्याया अष्टविधः । अष्टस्वव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वनात्मस्वात्मबुद्धिर- विद्या तमः, अष्टविधविषयत्वात्तस्याष्टविधत्वम् ॥

 "मोहस्य च" इति, अत्राप्यष्टविधो भश्चकारेणा- तुषज्यते । देवा ह्यष्टविधमैश्वर्यमासाद्यामृतत्वाभिमा- निनो ऽणिमादिकमात्मीयं शाश्वतिकमभिमन्यन्ते, सै- यमास्मिता मोहो ऽष्टाविधैश्वर्यविषयत्वादष्टविधः ॥




इति समुदायार्थः । अवधार्यते इत्यस्यापि पूर्वोक्तार्थे एव पर्यवे- सानं बोध्यम् । अत्रार्थे मुन्यन्तरसम्मतिमाह । अत एवेति अविद्यादिस्वरूपं तु वक्ष्यति ।। ४७ ॥

 प्रसंगसंगत्याऽऽर्यमवतारयति । संप्रतीति । अव्यक्ताद्यष्ट- विषयत्वादष्टविधत्वमित्याह । अष्टाविधेति ।।

 ननु अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्याति- रविद्येति (योग० पा० २ सू० ५)योगमुत्रविरोधः । शुक्त्यादि विपर्ययाणामसंग्रहश्चेति चेन्न । आत्मख्यात्यभिप्रायेण तथाऽभि- धानात् । अन्यत्रात्माभिमानाभावात् ।

 मोहस्याष्टविषयानाह । देवा इति । अणिमादिकं तु पूर्वमु- कमेव अष्टविधेषु प्राप्तेषु योऽभिमान उत्पद्यते स मोहः स एवास्मि- तापर्याय इत्याह । सोऽयमितिदिव्याति । दिव्यत्व च शब्द- स्य विपंच्याद्यजन्यत्वमेवं गन्धरसस्पर्शरूपेष्वपि बोध्यम् । आस-