अवगनानि निमित्तनैमित्तिकानि । कतमस्य तु नि-
मित्तस्य कतमन्नमात्तकामत्यत आह-
धर्मेण गमनमूर्ध्वं, गमनमधस्ताद्भवत्य धर्मेण ।।
ज्ञानेन चापवर्गों, विपर्ययादिष्यते बन्धः ॥ ४४ ॥
“धर्मेण गमनमूर्ध्वम्” द्युप्रभृतिषु लोकेषु । “ग-
मनमधस्ताद्भवत्यधर्मेण सुतलादिषु लोकेषु । “ज्ञानेन
चापवर्गः” । तावदेव प्रकृतिभेगमारभते न यावद्विवे-
कख्यातिं करोति । अथ विवेक्यातौ सत्यां कृतकृत्यतया
विवेकख्यातिमन्तम्पुरुषम्प्रति निवर्तते । यथाहुः---
"विवेकख्यातिपर्यन्तं ज्ञेयं प्रकृतिचेष्टितम्" इति ।
“विपर्थयात्" अतत्वज्ञानात् “इष्यते बन्धः" ॥
स च त्रिविधः-प्राकृतिको वैकृतिको दाक्षिणकञ्चे-
ति । तत्र प्रकृतावात्मज्ञानाद्ये प्रकृतिमुपासते तेषां प्राकृ-
तिको बन्धः, यः पुराणे प्रकृतिलयान् प्रत्युच्यते ।
“पूर्ण शतसहस्रं हि तिष्ठन्त्यव्यक्तीचिन्तकाः" इति ।
वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाह
प्रसंगसंगत्याऽऽर्यामवतारयति । अवगतानीति । धर्मेण । केवलशल्केन परहिंसारहितेन । शुक्लकृष्णेन च परहिंसापूर्वकेण । ऊर्द्ध ब्राह्मप्राजापत्यैन्द्रगान्धर्वयाक्षराक्षसपैशाचादिषु लोकेषु । सुतलादिषु । अतलवितलमहातलसुतलतलातलरसातलपाताले- ष्वित्यर्थः । आदौ सुतलग्रहणं तु क्वाचिकतादृशपुराणपाठाभिप्राये- ण । याति प्रकृतिचेष्टितमिति । प्रकृतिचेष्टितम् । प्रकृतेर्महत्तवादि परिणामो याति प्राप्नोति भवतीति ।।
पूर्ण शतसहस्रं मन्वन्तराणामिति शेषः । इंद्रियवशीकृ- तान्मत्वाऽऽहेन्द्रियचिन्तका इति । विगतज्वरा इति । पंचनामेव
५५