द्रष्टव्याः ।
एवं कमेंन्द्रयेषु मध्ये "वाग्भवति शब्दविषया"स्थू- लशब्दाविषथा, तद्धेतुत्वात् । न तु शब्दतन्मात्रस्य हेतु- स्तस्याहङ्कारिकत्वेन वागिन्द्रियेण सहैककारणकत्वात् । "शेषाणि तु" चत्वारि पायूपस्थपाणिपादाख्यानि "पञ्च- विषयाणि" पाण्याद्याहार्याणां घटादीनां पञ्चशब्दाद्या- त्मकत्वादिति ॥ ३४ ।।
साम्प्रतं त्रयोदशसु करणषु केषाञ्चित्प्रधानभावं स- हेलुकमाह-
सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
तस्मात्त्रित्विधं करणं द्वारि, द्वारााण शेषाणि ॥ ३५ ॥
“सान्तःकरणा” इति । “द्वारि”. प्रधानम् । “द्वारा
णि" करणानि, वाद्येन्द्रियाणि बाराणि । तैरुपनीतं स-
यविषये वागिंद्रियविषयस्य पंचशब्दाद्यनात्मकत्वरूपविशेषात्पृ-
थक्करणमियाह । एवमिति । स्थूलाब्दस्य विषयत्वे हेतुमाह ।
तद्धेतुत्वादिति । स्थूलशब्दजनकत्वादित्यर्थः । तस्य । शब्दत-
न्मात्रस्य ।
यद्यपि तामसाहंकारकार्यत्वं शब्दतन्मात्रस्य सात्त्विकाहंकार- कार्यत्वं वागिन्द्रियस्येत्युक्तं सात्विक एकादशक इत्यादिना । तथा- प्याहंकारिकत्वाविशेष इत्यभिप्रायेणाः । अहंकारिकत्वनेति । पञ्चविषयाणि । शब्दादिपञ्चात्पकानि ॥ ३४ ॥
बाह्यन्द्रियमपेक्ष्यान्तः करणस्य फलायोगव्यवच्छिन्नत्वरूपमु- ख्यकरणत्वं वाह्येन्द्रियाणां गौणं तत्र को गुण इत्याकांक्षायामुप- जीवकत्वसङ्गत्याऽऽयमवतारयति । साम्प्रप्तामिति । गुणमाह । तदुपनीतेति । छिदायां प्रहारस्य मुख्यकरणत्वेऽपि प्रकृष्ट-